________________
अभाव:
२०४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ भाष्येष्वधीतः, कथं ? यैः प्रत्याख्यातं सहजं तैजसं तेषां कुतोऽन्तर्गतौ तत्सम्भवः ? न चान्याऽवस्था भवस्थतायामस्ति यत्रोभयमेव स्यात् , अनुत्पन्नतैजसवैक्रियलब्धेः कार्मणौदारिके द्वे भवतः, अथवा कार्मणवैक्रिये देवनारकाणां, तिर्यमनुष्याणामनुत्पन्नतैजसलब्धीनां कार्मणौदारिकवैक्रियाणि युगपत् , अनुत्पन्नतैजसवैक्रियलब्धेश्चतुर्दशपूर्वधरमनुष्यस्य कार्मणौदारिकाहारकाणि वा, उत्पन्नलब्धीनां नृतिरश्चां कार्मणतैजसौदारिकवैक्रियाणि युगपञ्चत्वारि भवन्ति, चतुर्दशपूर्वधरमनुष्यस्यानुत्पन्नवैक्रियलब्धेः कार्मणतैजसौदारिका
... हारकाणि युगपत् , एवमेतेऽन्याचार्यदर्शनेन सप्त विकल्पा भवन्ति । युगपत् पञ्चशरीर्या पराया इदानीमा चतुर्य इत्यस्य व्यवच्छेदस्य फलं दर्शयति न तु कदाचित
पञ्च युगपद् भवन्तीति । नैव जातुचिदेकस्मिन् काले पञ्चानां सम्भवः आहारकवैक्रिययोर्युगपदभावात् । एतदनेन भाष्यवचनेन दर्शयति-नापि वैक्रियाहारके युगपद् भवतः । पूर्वमुपन्यस्तं(?) पञ्च युगपन्न जातुचित् सम्भवन्तीति तद्भावनार्थमिदम् , अपिशब्दोऽवधारकः । नैव वैक्रियाहारके युगपद भवतः, लब्धिद्वयाभावात् । एते उमे लब्धी युगपदेकत्र न सम्भवतो व्यक्तिरूपेण, यस्मिन् काले वैक्रियं तस्मिन्नेव काले आहारकमिति, पर्यायेण तु सम्भवतः, कृत्वा वैक्रियमुपरततद्वयापारः करोत्येवाहारकं, तदभावाच नैककाले पञ्च शरीराणि सम्भवन्त्येकस्य । किं पुनः कारणमेकस्यैकदा ते लब्धी न भवत इति ? आह-स्वामिविशेषादिति वक्ष्यति-'लब्धिप्रत्ययं च' (अ० २, सू०४८) 'शुभं विशुद्धमव्याघाति चाऽऽहारकं चतुर्दशपूर्वधरस्यैव' (अ० २, सू०४९) इत्यत्र सूत्रद्वये, स्वामिविशेषो वक्ष्यते । नृतिरश्चां लब्धिप्रत्ययं वैक्रियं भवति, तद्यथा-संयतः करोति वैक्रिय नियमत एव प्रमत्तस्तदाःभवति, उत्तरकालं च तां लब्धिमुपजीवन आहारकस्यापि प्रमत्तो निष्पादकः, निष्पत्त्युत्तरकालं तु नियमत एवाप्रमत्तो भवतीत्यस्मात् स्वामिविशेषाद् वक्ष्यमाणान लब्धिद्वयमेकस्यैकदेति, आहारकलब्धिमुपजीवन्नपि शुभाध्यवसायत्वादप्रमत्त इति ॥४४॥ ___उक्तानि शरीराणि, किं पुनरेषां प्रयोजनम् ? उपभोगः, उपभोगवन्ति शरीराणि, तेषां तु
सूत्रम्-निरुपभोगमन्त्यम् ॥ २-४५ ॥ टी०-अथवा इहौदारिकादिशरीरभावे तावत् सुखदुःखोपभोगो दृष्टस्तत् किं यदा
__ कार्मणं विग्रहगतौ तदाऽनेन सुखदुःखोपभोग आत्मना क्रियते नेति ? । कार्मणस्य बाह्योप
पि. उच्यते-निरुपभोगमन्त्यम् । अथवा शरीराणामिन्द्रियत्वं सुखदुःखो
पलब्ध्यधिष्ठानत्वं व्यापारश्चास्ति, कार्मणमपि च शरीरन्यायवचनात् व्यापारवच्च विग्रहगतौ कर्मयोगवचनाच, परकारणत्वाच ॥ नन्विन्द्रियवदङ्गोपाङ्गनिर्वृत्तेरभावात् तत् किमस्मिन्नर्थोपलब्धिसुखदुःखोपभोगविशेषो नास्ति लब्धीन्द्रियसद्भावे सतीति?।
भोगाभाव:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org