________________
१७६
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २
मात्रेण वा रूपवानिति व्यपदिश्यते, यथा च प्रभूतद्रविणो धनवान्, प्रशस्तरूपः स्वरूपवानुच्यते तथा महत्या शोभनया चेह संज्ञया संज्ञिनो ग्रहीष्यन्ते, भूमप्रशंसातिशयनादिषु मत्वर्थीयविधानात्, कालहेतुदृष्टिवादोपदेशसंज्ञानां च मध्ये कालिक्येव परिगृह्यते नेतरे, निरूपितमिदं नन्द्यां सूत्रव्याख्याने- हेतुकालदृष्टिवादोपदेशक्रममुत्तरोत्तर विशुद्धमपहाय किं कारणं कालिक्यादौ व्यवस्थापितेत्येवमाक्षिप्तेऽभिहितमुत्तरं (हारिभद्रीये ) - संज्ञयसंज्ञीति सर्वत्र श्रुते कालिक्याः संज्ञायाः प्रायः संव्यवहारः क्रियते, अतः क्रमविशुद्धिमनादृत्य सूत्रमुपनिबद्धम्, अतस्तां कालिक संज्ञामधिकृत्य भाष्यकृद् व्याख्यानयति - सम्प्रधारणसंज्ञायां ये वर्तन्ते जीवास्ते समनस्का भवन्ति । सम्प्रधारणमालोचनं येन सुदीर्घमपि कालमनुस्मरति भूतमागामिनं चानुचिन्तयति कथं नु कर्तव्यं किं वा तत्रानुष्ठेयमत एव दीर्घकालिकीत्युmisso पूर्वपदलोपात् । तच्च सम्प्रधारणमेवंरूपं कस्य सम्भवति । योऽनन्तानन्तान् मनोयोग्यान स्कन्धान् आदाय मन्यते, तल्लब्धिसम्पन्नो मनोविज्ञाउपलब्धिनानात्वम् नावरणक्षयोपशमादिसमेतः, यथा च रूपोपलब्धिश्चक्षुष्मतः प्रदीपादिप्रकाशपृष्ठेन तद्वत् क्षयोपशमलब्धिमतो मनोद्रव्यप्रकाशपृष्टेन मनःषष्ठैरिन्द्रियैरर्थोपलब्धिः, यथा वाऽविशुद्धचक्षुषो मन्दमन्दप्रकाशे रूपोपलब्धिरेवमसंज्ञिनः पश्चेन्द्रियसमूर्च्छनजस्यात्यल्पमनोद्रव्यग्रहणशक्तेरर्थोपलब्धिः, यथा चेह मूच्छितादीनामव्यक्तं सर्वविषय विज्ञानमेवमतिप्रकृष्टावरणोदयादे केन्द्रियाणाम्, अतः शुद्धतरं शुद्धतमं च द्वीन्द्रियादीनामा पञ्चेन्द्रियसम्मूर्च्छ नजेभ्यः, ततस्तत्संज्ञिनामतिप्रकृष्टतरमिति ? । आह - कुतः पुनचैतन्यसमानतायामात्मनो यदिदमुपलब्धिनानात्वम् । उच्यते - सामर्थ्य भेदात् स च क्षयोपशमानन्त्याद् यथा चेह छेदनत्वे तुल्ये चक्रवर्तिनचक्रस्य यत् सामर्थ्यं तत् क्रमशो हीयमानसामर्थ्यानां न शरपत्रादीनामस्ति, एवमेव हि मनोविषयाणां संज्ञिनां चैतन्ये सति या पटुता सम्प्रधारणायां नासौ क्रमशो हीयमानानामसंज्ञिनामिति । एवं तावद् विशिष्टसंज्ञाभाज एव संज्ञिन इति प्रतिपादितम् ॥ इदानीं नामग्राहमाचष्टे तान् संज्ञिनः- सर्वे नारकदेवा इत्यादिना । पृथिवी सप्तकवर्तिनो नारकाः, भवनवनचरज्योतिषिकवैमानिकाश्च देवाः, गर्भेण व्युत्क्रान्तिर्येषां मनुष्याणां ते गर्भव्युत्क्रान्तयः, उपरिष्टात् (अ०२, ०३२) त्रिविधं जन्म वक्ष्यते, तत्र मातृपितृसंयोगाज्जीवस्योत्पादो गर्भजन्मोच्यते, तेन गर्भजन्मना विविधमुत्क्रमणंउद्गमनं प्रादुर्भाव येषां कदाचिच्छिरसा कदाचित् पादाभ्यां मातुरुदरान्निःसरणमित्येवं विधमनुष्याणां च समनस्कत्वम् । गर्भव्युत्क्रान्तिग्रहणात् सम्मूर्च्छनजन्ममनुष्यव्यावृत्तिः । तिर्यग्योनिजास्त्वित्यादि । पञ्चेन्द्रियतिर्यग्योनिजाः गो-महिषी - अजाविक-करि- केसरि-व्या
·
१ तथा च' इति ग-पाठः । २ मनोविषयिणां संज्ञानाम्' इति ग-टी-पाठः । ३ ' तत्संज्ञिनः' इति कख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org