________________
१७५
सूत्र २५]
स्वोपज्ञभाष्य-टीकालङ्कृतम् ___ष्टमारभ्यत इति नातिदोषाय । अपरेऽतिविसंस्थुलमिदमालोक्य भाष्यं भाष्यपाठभेदः
विषण्णाः सन्तः सूत्रे मनुष्यादिग्रहणमनार्षमिति सङ्गिरन्ते, गौरवहेतुत्वात् , विनापि किल मनुष्यादिग्रहणेन चत्वार्येकेन वृद्धानि येषां ते सामर्थ्यान्मनुष्यादयो भविष्यन्ति, तदेतदयुक्तप्रायं लक्ष्यते, अविगानेनैवंविधसूत्राध्ययनात् , सामर्थ्यलाभे वा भ्रमरादिग्रहणमपि न कर्तव्यम्, त्रीण्येकेन वृद्धानि स्पर्शन-रसन-घ्राण-चढूंषि भ्रमरादीनामेवेति । इदमन्तरालमुपजीव्यापरे वातकिनः स्वयमुपरभ्य सूत्रमधीयते-'अतीन्द्रियाः केवलिनः येषां मनुष्यादीनां ग्रहणमस्ति सूत्रेऽनन्तरेत एवमाहुः-मनुष्यग्रहणात् केवलिनोऽपि पञ्चेन्द्रियत्वप्रसक्तेः अतस्तदपवादार्थमतीत्येन्द्रियाणि केवलिनो वर्तन्त इत्याख्येयम् , तदेतद् वार्तम् , भगवतो द्रव्येन्द्रियसद्भावात् , भावेन्द्रियाभावश्चात्यन्तिको मत्यादिचतुष्टयविनिर्मुक्तत्वात् केवलस्येति किमत्रानिष्टमापद्यत इति न विद्मः ॥ २४ ॥
भा०-अत्राह-उक्तं भवता-द्विविधा जीवाः-समनस्का अमनस्काश्चेति । तत्र के समनस्का इति ? । अत्रोच्यते ॥
टी.-अत्राह-उक्तं भवतेत्यादिः सम्बन्धग्रन्थः । इन्द्रियनियम आपादिते मनोनियमाभिधानेच्छयात्रावसरे शिष्य आह-अभिहितं त्वया प्राय द्विप्रकारा जीवाः संसारिणः-'समनस्का अमनस्काश्च' (अ० २, सू०११) तत्र नारकादिषु के समनस्का इति विभक्तमिच्छामि ज्ञातुम्, के वाऽमनस्का इति नोक्तम् , अन्यतरसमूहाभिधानेऽन्यतरस्य सुज्ञानत्वात् अत्र शिष्यप्रश्नावसायेऽभिधीयते--
सूत्रम्-संज्ञिनः समनस्काः ॥२-२५ ॥ भा०-सम्प्रधारणसंज्ञायां संज्ञिनो जीवाः समनस्का भवन्ति । सर्वे नारकदेवा गर्भव्युत्क्रान्तयश्च मनुष्यास्तिर्गग्योनिजाश्च केचित् । ईहापोहयुक्ता गुणदोषविचारणात्मिका सम्प्रधारणसंज्ञा । तां प्रति संज्ञिनो विवक्षिताः। अन्यथा ह्याहार-भय-मैथुन-परिग्रह-संज्ञाभिः सर्व एव जीवाः संज्ञिन इति ॥२५॥
टी०-संज्ञिनः समनस्काः, संज्ञा विद्यते येषां ते संज्ञिनः, शिक्षादित्वाद ब्रीह्यादित्वाद् वा, विद्यमानं मनो येषां ते समनस्काः सपुत्रादिवत् , संज्ञामात्रसम्बन्धात्
... सर्वे पृथिव्यादयः संज्ञिनो दशविधसंज्ञाभ्यनुज्ञानात् इत्यागममनुपश्यसम्प्रधारणसंज्ञा
- न्नाचार्य आह-सम्प्रधारणसंज्ञायामित्यादि । अथवा कालहेतुदृष्टिवादोपदेशाख्यास्तिस्रः संज्ञास्तत्र कतमां संज्ञामधिकृत्योच्यते संज्ञिनः समनस्का इति । आहसम्प्रधारणसंज्ञायामित्यादि, न सर्वा संज्ञाऽऽगमोक्ताऽत्र गृह्यते, किन्तु या सम्प्रधारणात्मिका तस्याः परिग्रहः । किं पुनः कारणमूहलोकाहारादिसंज्ञास्त्यज्यन्ते ? । ऊहादिसंज्ञाः तावदतिस्तोकत्वादशोभनत्वाचाहारादिसंज्ञानाधिक्रियन्ते, नहि कार्षापणमात्रेण धनवान, मूर्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org