________________
सूत्रं २२ ]
स्वोपज्ञभाष्य–टीकालङ्कृतम्
एवमितरेन्द्रियप्राप्तानामपि वाच्यम् । द्रव्यमिन्द्रियनानात्वान्नानाकारस्पर्शादिभेदमापद्यते स्वनिमित्ततस्त्वेकाकारद्रव्यस्वलक्षणविशिष्टत्वात् यदेवास्यान्तरङ्गं लक्षणं तदेव स्वरूपं त एव हि तस्य धर्माः सर्वदाऽजहद्वृत्तित्वात् स्वलक्षणम्, परनिमित्तास्तु क्षेत्रद्रव्यकालादयोsपगच्छन्तोऽनुगच्छन्तश्च न स्वलक्षणं तदनादिपारिणामिकधर्माविष्कृतस्वरूपं वस्त्विन्द्रियादिव्यपदेशाद् भिद्यते, यश्च स्वरूपावस्थितस्य पश्चादिन्द्रियसम्बन्धो द्रव्यक्षेत्रादीनाम- नासौ वस्तुनः स्वरूपं भवति तेन स्पर्शादयो न द्रव्यादर्थान्तरमथ न परनिमित्त एषां भेदो द्रव्याभेदेऽपीति । एतेन दार्शनस्पार्शनमेव च द्रव्यमिति प्रत्यस्तम् । अत्र चात्मागुलप्रमितसातिरेकयोजनलक्षावस्थितं चक्षुः प्रकाशनीयरूपं गृह्णाति प्रकर्षत इति सिद्धान्तः । एतेन पुष्करार्धवर्तिपुरुषसातिरेकैकविंशतिलक्षाप्रमितप्रदेशोत्कृष्टदिवसोदय कालवर्तिसूर्यदर्शन चोद्यमपास्तमध्यवसातव्यम् । अप्राप्तकारित्वाच्च योग्यदेशव्यवस्थितमेव रूपमागृह्णाति शरीरदेशस्थम् । अप्राप्तकारिता चास्य मनोवदनुग्रहोपघातशून्यत्वात् न चास्य हुतभुग्जलशूलाद्यालोकनाद् दहनक्लेदनपानादयो दृश्यन्ते । आवृताग्रहणात् प्राप्तविषयमिति चेत्, असदेतत्, मनोऽपि हि विषगराद्यावृतं न गृह्णात्यथ चाप्राप्तकारीति, स्पर्शरसगन्धास्तु योजननवकप्रमिताद्देशादागताः प्रकर्षतः स्पर्शनादिभिः शरीरव्यवस्थितैरुपलभ्यन्ते स्पर्शनरसन - घ्राणानां प्राप्तकारित्वात् प्राप्तकारित्वं चोपघातानुग्रहदर्शनादग्निचन्दनादिभिरवगन्तव्यम् । शब्दोऽपि स्वपरिणाम मजहद योजनद्वादशकप्रमितात् प्रदेशादागतः श्रोत्रेण प्राप्तकारिणोत्कर्षाद् गृह्यते स चायाति श्रोत्रदेशमाशु पुद्गलमयत्वे सति सक्रियत्वात्, सक्रियत्वं वायुना उह्यमानत्वाद् धूमस्येव, गृहादिषु तु पिण्डीभवनाद् विशेषतश्च द्वारानुविधानात् तोयवत् प्रतिघाताच्च नितम्बादिषु वायुवदिति । प्राप्तकारित्वं चानुग्रहोपघातपाटवबाधिर्यादिदर्शनादस्यावसेयम् । अवरतश्चक्षुरङ्गुलसङ्ख्येयभाग प्रमितदेशवर्ति रूपं परिच्छिनत्ति, शेषाण्यङ्गुलासङ्ख्येय भाग प्रमितप्रदेशादागतं विषयमाददते करणानीति ॥ २१ ॥
"
"
यथा चैषां स्पर्शादयोऽर्थास्तैर्ग्रहणादेवमिदमर्हत्प्रणीतं यथास्थितजीवपदार्थ ख्यापनपरम्, प्रयोजनापेक्षया यनेकद्वादशभेदं श्रुतज्ञानं मनसोऽर्थ इत्याचिख्यासुराहसूत्रम् - श्रुतमनिन्द्रियस्य ॥ २ - २२ ॥
प्राप्याप्राप्य विषयता
भा० - श्रुतज्ञानं द्विविधमनेकद्वादशविधं नोइन्द्रियस्यार्थः ॥ २२ ॥ टी० - श्रुतमनिन्द्रियस्य । श्रुतं ज्ञानावरणक्षयोपशमप्रभवं द्रव्यश्रुतानुसारि प्रायो निजार्थोपसङ्गतमात्मनः परिणतिप्रसादरूपं तत्त्वार्थपरिच्छेदात्मकं भावअनिन्द्रियस्य विषयः श्रुतं तदनिन्द्रियस्य मनसोऽर्थः, अथवाऽर्थावग्रहसमयात् परतो मतिज्ञानमेव श्रुतज्ञानं भवति तच्च न सर्वेषामिन्द्रियाणामर्थावग्रहात् परतः, किन्तु मनोऽर्थावग्रहादेव परतो मतिः श्रुतीभवति विशेषतस्तु श्रुतग्रन्थानुसारेणेति द्वघनेकद्वादशविधविशे
Jain Education International
For Private & Personal Use Only
१७१
,
www.jainelibrary.org