________________
१७० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः २ निर्वयं योगा मनोवाकायलक्षणाः करणान्यात्मनो वेदितव्यानि । इतिशब्द एवंशब्दार्थे । एवमेतानि नामग्राहमुपदिष्टानि पञ्चेन्द्रियाणि भवन्ति, स्पर्शनादिक्रमनियमो बुद्धिपूर्व सूरेरमुतो नियोगाजन्तवो वाय्वन्ताः स्पर्शनकरणमाज इति सुखमेव वक्ष्यामि, तथा परे स्पर्शनमादौ वर्णन्ति सर्वजीवस्वामिकत्वात् सर्वशरीरव्यापित्वात् अल्पशक्तित्वाच्च ततो रसनादीनि तरतमयोगेनाल्पस्वाम्यणुशरीरदेशस्थबहुशक्तित्वादिति ॥ २० ॥
अथात्मनो लिङ्गान्येतानीत्युक्तं तत् केन पुनः प्रयोजनविशेषेणोपकुर्वन्त्यात्मनः १ । उच्यते-विषयोपभोगतदादानकरणतयेति । विषयाश्च स्पर्शादयोऽर्थास्ते चामी यथाक्रममेषामवसातव्याः ॥
सूत्रम्-स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥२-२१ ॥ इन्द्रियाणां विषयाः .
या भा०-एतेषामिन्द्रियाणामेते स्पर्शादयोऽर्थी भवन्ति यथा
सङ्ख्यम् ॥ २१ ॥ टी-स्पर्शरसेत्यादि सूत्रम् । स्पृश्यतेऽसाविति स्पर्शः शीतोष्णादिभेदलक्षणोऽष्टधा, रसः पञ्चधा तिक्तादिभेदलक्षणः लवणस्य मधुरान्तर्गतत्वात् , गन्धो द्विधा-सुरभिरितरश्च, साधारणश्चेत्यपरे, वर्णः पञ्चधा शुक्लादिभेदलक्षणः, वाग्योगप्रयत्ननिसृष्टोऽनन्तानन्तप्रदेशिकपुद्गलस्कन्धप्रतिविशिष्टपरिणामः शब्दः, पुद्गलद्रव्यसङ्घातभेदजन्मा वा गर्जितादिरूपः । एते स्पर्शादयो यथोक्तलक्षणास्तेषामनन्तरातीतसूत्रन्यस्तानां स्पर्शनादिकरणानामाः परिच्छेद्याः प्रयोजनानि निर्वानीतियावत् । एनमेवार्थ स्पष्टयन भाष्यकृदाह-एतेषामित्यादि। एतेषाम्-आत्मलिङ्गतया निरूपितानां स्पर्शनादीनां एते स्पर्शादयोऽनेकभेदभाजोय॑माणस्वरूपत्वाद् यथासङ्ख्यमर्था भवन्त्यव्यतिकररूपेण ग्रहणविशेषात् । तेषामर्था इत्यसमासकरणं सम्बन्धस्य स्पष्टताप्रतिपत्यर्थम्, समासे तु चतुर्थ्यारेकाऽपि स्यात् सा चानिष्टा तस्मादसमासः । अर्थग्रहणं च विषयशब्दमपहाय यदकारि सूरिणा तदेतज्ज्ञापयितुमभिप्रेतमावस्थिकमेतदर्थत्वम् , एकमेव हि वस्त्वर्यमाणत्वादवस्थाभेदेन तथा तथार्थतामियर्ति, तथाहि यदेवाङ्गुल्यग्रेण स्पृश्यते तदेव च विद्रुमद्रुमच्छायानुकारिणा जिह्वाग्रेण रस्यते, _ .. मोदकद्रव्यमाघ्रायते च नासिकाविवरेण, चक्षुषा तदेवालोक्यते, तदेव
१० चातिबहुकालपर्युषितमतिकठिनीभूतमभ्यवह्रियमाणमातनोति ध्वनिम्,
न खलु तत्र कचिद् देशे स्पर्शः कचिद् रसादिरवस्थितः किन्तु य एव देशः शीत उष्णो वा स्पर्शनेनोपलब्धः स एव पुनर्मधुरो रसनेनास्वाद्योपलभ्यते, तस्मात् तदेवैकमभिन्नं पुद्गलद्रव्यमनेकग्रहणापेक्षया भेदमासादयति, पित्राद्यनेकविशेषापेक्षपुरुषभेदप्रतिपत्तिवत् , तद् हि चक्षुर्ग्रहणगोचरतामितं द्रव्यमभेदमपिनीलाद्याकारेण परिणतिमुपागच्छद् रूपमिति व्यपदिश्यते, रसनग्रहणविषयतामापन्नं तिक्तादिपरिणाममास्कन्दद् रस इति तदेवाभिधीयते,
१'तेषामि०' इति ग-पाठः । २ 'व्यतिरेक ' इति ग-पाठः । ३ ' ग्रहणागोचरता' इति क-ख-पाठः ।
८.
विषयता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org