SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १२५ - . सूत्रं ३५] स्वोपज्ञभाष्य-टीकालङ्कृतम् __ भा०-यथा सर्वमेकं सदविशेषात् । सर्व द्वित्वं जीवाजीवासवस्यकत्वादि त्मकत्वात् । सर्व त्रित्वं द्रव्यगुणपर्यायावरोधात् । सर्व चतुष्टयं चतुर्दर्शनविषयावरोधात् । सर्व पञ्चत्वं पञ्चास्तिकायात्मकत्वात् । सर्व षट्रकं षड्द्रव्यावरोधादिति। यथैता न विप्रतिपत्तयोऽथ चाध्यवसायस्थानान्तराण्येतानि, तदन्नयवादा इति ॥ टी०-यथेत्यादि । सकलं जगदनेकावयवात्मकमपि सत्तामात्रव्याप्तेरविशेषादेकमुच्यते । एकं च सद् द्विधा, जीवाजीवमात्रविवक्षावशात् । कथं पुनरेकसङ्ख्याव्यवच्छिन्नं सद् द्वित्वसङ्ख्याया गोचरीभवति ?, न च काल्पनिकमेतत्, अंशसद्भावात्, तस्मान्नास्ति विरोधः, एवं नयेष्वप्यविरोधप्रतिपत्तिः साधीयसीति । तथा तदेवैकं विधा, द्रव्यगुणपर्यायेषु सर्वस्यावरुद्धत्वाद्, गुणपर्यायाणामन्वयि द्रव्य, गुणा रूपादयः, पर्यायाः कपालादयः, सहभूत्वं क्रमभूत्वं चादाय भेदेनोपादानमिति । तथा तदेवैकं चतुर्धा, चक्षुर्दर्शनादिभिः श्चतुर्भिः सर्वस्य विषयीकृतत्वात् तन्मात्रता। तथा तदेव पञ्चस्वभाव निरूप्यते, पञ्चास्तिकायात्मकत्वात्, एतदाह-सर्व पञ्चत्वमस्तिकायावरोधात्, पञ्चस्वभावं सर्वमिदं जगत्, पञ्चभिरस्तिकायैरवरुद्धत्वात्, धर्माधर्माकाशजीवपुद्गलास्तिकायात्मकं यतः । तथा तदेव पश्चस्वभावं षट्स्वभावं, षद्रव्यसमन्वितत्वात्, तदाह-सर्व षटकं षड्द्रव्यावरोधात, सर्वे पड्स्वभावं जगत्, कुतः ? षड्द्रव्यावरोधादिति । षड् द्रव्याणि कथम् ? उच्यते-पञ्च धर्मादीनि कालश्चेत्येक इति । यथा-येन प्रकारेण एताः एकद्वित्रिचतुःपञ्चषडात्मिका अवस्थाः एकत्र जगत्युपादीयमाना न विरुद्धाः प्रतिपतयो भवन्ति, अथ च ज्ञेयस्य जगतः अध्यवसायान्तराणि-परिच्छेदकारिविज्ञानान्येकादिरूपेण, तद्वत् तेन प्रकारेण नयानां वादा-जल्पा अध्यवसायकृता न विरुध्यन्ते । एतत् कथयति-यो हि नाम यत्र वस्तुनि धर्मो न विद्यते स तत्र स्वेच्छयोपादीयमानस्तत्स्थेनापरेण धर्मेण विरोधं प्रतिपद्यते, यथाऽऽत्मनि अज्ञानिता उपादीयमाना ज्ञानरूपेणात्मस्थेन धर्मेण विरुद्धा सती त्यज्यते, नैवं नयेषु, यथा वा व्योम्नि मूर्तता तत्स्थेनापरेणामूर्तेन धर्मेण विरुद्धा सती विप्रतिपत्तिरुच्यते, नैवं नयेषु, यतो वस्तु सामान्यविशेषधर्मसमन्वितं कश्चित् केनचिदाकारेण परिच्छिनत्ति । यदि ह्यसन्नेवासौ धर्मस्तेन नयेन तत्र वस्तुन्यध्यारोप्येत स्याद विप्रतिपत्तिप्रसङ्ग इति, न तु तथा । भा०-किंचान्यत् । यथा मतिज्ञानादिभिः पञ्चभिर्ज्ञानधर्मादीनामस्तिकायानामन्यतमोऽर्थः पृथक् पृथगुपलभ्यते, पर्यायविशुद्विविशेषादुत्कर्षेण, न च तानि विप्रतिपत्तयो भवन्ति, तद्वन्नयवादाः ॥ १ 'अस्तिकायावरोधात् ' इति घ-पाठः। २ 'ता' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy