SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १२४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः १ ____भा०-तेषामेव साम्प्रतानामध्यवसायासक्रमो वितर्कध्यानवत् समभिरूढः ॥ टी-तेषामेव घटानां सतां-विद्यमानानां वर्तमानकालावधिकानां सम्बन्धी योऽध्यवसायासक्रमः स समभिरूढः, अध्यवसायो-विज्ञानं तस्य विज्ञानस्योत्पादकत्वाभिधानमप्यध्यवसायस्तस्यासक्रमः-अन्यत्र वाच्येष्वप्रवृत्तिः, नहि घट इत्यस्याभिधानस्य कुटो वाच्यः, कुट इत्यस्य वा घट इति । अध्यवसायासक्रमं च दृष्टान्तेन भावयति-वितर्कध्यानवदिति । अन्यतमैकयोगानामेकत्वं वितर्कमिति वक्ष्यति नवमेऽध्याये (मु०४१), वितर्कः श्रुतं, 'वितर्कप्रधानं ध्यानं वितर्कध्यानं तद्वत् ॥ नन्वाद्येऽपि शुक्लभेदे वितर्कप्रधानता समस्ति ? नैवम् , तत्र सक्रमाभ्युपगमात् ‘अविचारं द्वितीयम्' (अ०९,सू०४४) इति वचनात् एकत्ववितर्कपरिग्रह इति ॥ एवम्भूताभिप्रायमाविष्करोतिभा० तेषामेव व्यञ्जनार्थयोरन्योन्यापेक्षार्थग्राहित्वमेवम्भूत इति ॥ टी-तेषामेवेत्यादि । तेषामेवानन्तरनयपरिगृहीतघटानां यौ व्यञ्जनार्थी तयोरन्योन्यापेक्षार्थग्राही योऽध्यवसायः स एवम्भूतः परमार्थः व्यञ्जनं वाचकः शब्दः, अर्थोऽभिधेयो वाच्यः। अथ का पुनरन्योन्यापेक्षा ?, यदि यथा व्यञ्जनं तथार्थों यथा चार्थस्तथा व्यञ्जनम्, एवं हि सति वाच्यवाचकसम्बन्धो घटते अन्यथा न, योग्यक्रियाविशिष्टमेव वस्तुस्वरूपं प्रतिपद्यत इति ॥ __ एवं भाविते नयानामभिप्राये चोदकः स्वाभिप्रायमभिव्यनक्ति भा०-अत्राह-एवमिदानीमेकस्मिन्नर्थेऽध्यवसायनानात्वात् ननु विप्रतिपत्तिप्रसङ्ग इति । अत्रोच्यते टी-एवमिदानीमेकस्मिन्नित्यादिना भाष्येण । एवमिति यथा प्रतिपादितैरेकवस्तुनि परस्परविलक्षणैर्भेदैः, इदानीमित्येतत् पूर्वाभिहितनयवादकालापेक्षया प्रयुज्यते, एवमवस्थिते नयप्रस्थानेऽधुना इदमापनीपद्यते-एकस्मिन्नर्थे घटवस्तुनि, बहुष्वर्थेषु न दोषाशङ्कास्ति, प्रतिवस्तु नयप्रवृत्तेः, एकस्मिन् पुनरध्यवसायनानात्वाद् विज्ञानभेदात् , ननुशब्दो मीमांसायां, मीमांसनीयमेतदेवं, विप्रतिपत्तिप्रसङ्ग इति, विरुद्धत्वप्रतीतिर्विप्रतिपत्तिस्तस्याः प्रसङ्गोऽनिष्टमितियावत् ,न ह्येकमेव वस्तु सामान्यं सत् पुनर्विशेषो भवति, त्रिकालिकः वर्तमानक्षणावधिको वा, नामादित्रयनिरासाद् वा भावमानं पर्यायशब्दानभिधेयो वा विशिष्टक्रियाविष्टो वा वस्तुविशेष इति, विरुद्धाः प्रतीतयः सकलाः प्रतीयन्त इति, न च विरुद्धप्रतीतिका पदार्थो निश्चेतुं शक्यते, न चानिश्चयात्मकं तत्त्वज्ञानमित्याकुमारसिद्धिः । शास्त्रकारस्तु येनाभिप्रायेण ज्ञेयस्यार्थस्याध्यवसायान्तराण्येतानीत्युक्तवान् तं प्रचिकटयिषुराहअत्रोच्यते विप्रतिपत्तिपरिहारः १ 'कालिकः' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgi
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy