________________
११६ तत्वार्थाधिगमसूत्रम्
[ अध्यायः १ सूत्रः, एष च भावविषयप्रकारातीतानागतविषयवचनपरिच्छेदे प्रवृत्तः सर्वविकल्पातीतातिसम्प्रमुग्धसङ्ग्रहग्रहाविशिष्टत्वाद् व्यवहारस्यायथार्थतां मन्यमानः अचरणपुरुषगरुडवेगव्यपदेशवद् वतमानक्षणसमवस्थितिपरमार्थवस्तु व्यवस्थापयति, अतीतानागताभ्युपगमस्तु खरविषाणास्तित्वाभ्युपगमान्न भिद्यते, दग्धमृतापध्वस्तविषयश्चानाश्वासो न कस्यचिदपि स्यात् , अघटादिलक्षणमृदाद्यनर्थान्तरत्वाच्च घटादिकालेऽपि घटादितैव स्यात् , न च तदेव तदेकं मृद् द्रव्यमन्यथा वर्तते, किं तर्हि ? अन्यदेव, अन्य प्रत्ययवशाद वाऽन्यथोत्पद्यत इति न पिण्डादिक्रियाकाले कुम्भकारव्यपदेशः, यदि चान्यदपि कुर्वन्नन्यस्य कर्तेत्युच्यते पटादिकरणप्रवृत्तोऽपि प्रत्याख्यातविज्ञानान्तरसम्बन्धः स्यादेव कुम्भकारः, ततश्चाशेषलोकव्यवहारोपरोध इत्यतः पूर्वापरभागवियुतः सर्ववस्तुगतो वर्तमानक्षण एव सत्यः, नातीतमनागतं चास्तीति, एतदर्शननिबन्धनं चैतदुपदिश्यते, "पिब च खाद च" इत्यादि "एतावानेष पुरुषः" इत्यादि वेति । शब्दनयः--शब्द एव, सोऽर्थकृतवस्तुविशेषप्रत्याख्यानेन शब्दकृतमेवार्थविशेषं मन्यते, यद्यर्थाधीनो विशेषः स्यात् न शब्दकृतः, तेन घटवर्तमानकाले घट एव निर्विशेषः स्यात् कर्मकरणसम्प्रदानापादानस्वाम्यादि विशेषान् नाप्नुयात् , ततश्च घटं पश्यत्येवमादिकारककृतो व्यवहारः छियेत, समानलिङ्गादिशब्दसमुद्भावितमेव वस्त्वभ्युपैति नेतरत् , नहि पुरुषः स्त्री, यदीष्येत वचनार्थहानिः स्यात् , भेदार्थ हि वचनम् , अतः स्वातिः तारा नक्षत्रमिति लिङ्गतः, निम्बाम्रकदम्बा वनमिति वचनतः, स पचति त्वं पचसि अहं पचामि पचावः पचामः इति पुरुषतः, एवमादि सर्व परस्परविशेषव्याघातादवस्तु, परस्परव्याघाताच्चैवमाद्यवस्तु प्रतिपत्तव्यम् , यथा शिशिरो ज्वलनः, तथा विरुद्धविशेषत्वात् तटस्तटी तटमित्यवस्तु, रक्तनीलमिति यथा, यद् वस्तु तदविरुद्ध विशेषमभ्युपयन्ति सन्तः यथा घटः कुटः कुम्भ इति । तथा चोच्यते-यत्र ह्यर्थो वाचं न व्यभिचरत्यभिधानं तत् , एवमयं समानलिङ्गसङ्ख्यापुरुषवचनः शब्दः, एतद्दर्शनानुगृहीतं चोच्यते-" अर्थप्रवृत्तितत्त्वानां शब्द एव निबन्धनम् " इति, एवमेते मूलनयाः पञ्च नैगमादयः । अत्र चाद्याश्चत्वारोऽर्थप्रधानत्वादर्थतन्त्रत्वात् , शब्दनयः पुनरर्थोपसर्जनः शब्दप्रधानः शब्दतन्त्र इति ॥ ३४ ॥ अधुनैषां यथासम्भवं भेदप्रतिपिपादयिषयाऽऽह
सूत्रम्-आद्यशब्दौ द्वित्रिभेदौ ॥१-३५॥ टी०-तत्र आद्यशब्दावित्यादि । तत्र नैगमादिषु पञ्चसु यौ आद्यशब्दौ तौ आद्यशब्दनयभेदाः
... यथासङ्ख्यं द्वित्रिभदौ भवतः, आद्यौ च तौ शन्दौ चेति समाना" धिकरणसमासाशङ्कायामाह
३ अस्योल्लेखो हरिकारिकायां
१ 'अन्यत्प्रत्यय ' इति ख-ग-पाठः। २ 'ख्यातेन' इति ख-पाठः। शब्दाद्वैते । ४ 'तत्र आद्यशब्दा' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org