________________
११५
सूत्र ३४ ] स्वोपज्ञभाष्य-टीकालङ्कृतम् इति च अनेकधर्मकदम्बकोपेतस्य वस्तुन एकेन धर्मेणोन्नयनमवधारणात्मकं नित्य एवानित्य एवेत्येवंविधं नयव्यपदेशमास्कन्दति, स चाध्यवसायविशेष इति । निगम्यन्ते-परिच्छिधन्ते इति निगमाः-लौकिका अर्थाः, तेषु निगमेषु भवो योऽध्यवसायो ज्ञानाख्यः स
र... नैगमः । स च सामान्येनापि व्यवहरति सामान्यबुद्धिहेतुना सामान्य
वचनहेतुना च, अत्यन्तं भेदेभ्योऽन्यत्वरूपेण सत्तामात्रेण, तथा विशेषेणापि विशेषबुद्धिहेतुना विशेषवचनहेतुना च अत्यन्तं सामान्यादन्यत्वरूपेण व्यवहरति परमाणुनिष्ठितेन, तथा सामान्य विशेषेणापि गवादिना सर्वगोपिण्डेष्वनुवृत्त्यात्मकेन अश्वादिव्यावृत्यात्मकेन च व्यवहरति, यथा लोको व्यवहरति तथाऽनेन व्यवहर्तव्यमिति, लोकश्योपदिष्टैः प्रकारैः समस्तैव्यवहरति । प्रवचने च वसतिग्रस्थकनिदशेनद्वयेन विभावितः काणभुजराद्धान्तहेतुरव
गन्तव्यः। अभेदेन सङ्ग्रहात् सर्वस्य सङ्ग्रह्णाति इति सङ्ग्रहः । सङ्ग्रहस्य
स्थ यदि भवनाभिसम्बद्धस्यैव भावस्य भावत्वमभ्युपगम्यते ततः परिसमास्वरूपम्
पितात्मस्वरूपित्वाद् भावस्य भ्रान्तिसमुपनिवन्धनघटादिविकल्पप्रकल्पनानर्थक्यम् , यदि घटादि वस्त्वपि भवनप्रवृत्तितन्त्रमेवेत्येवं सति भाव एव, तदनान्तरत्वात् तत् स्वात्मवत्, भवनाथान्तरत्वे वा व्योमोत्पलादिवदसत्त्वं विकल्पानां रासभविषाणादिसत्त्वं वा घटादिवद् भवनार्थान्तरत्वात् , एतदर्शनपुरस्सरा एव च सर्वनित्यत्वैकत्वकारणमात्रत्वादिवादाः कालपुरुषस्वभावदैवादयश्चेति भावः । निश्वयासद्गृहीतानां विधिपूर्वक
__मवहरणं व्यवहारः। यदि घटादिभेदश्रुत्या स्वसामान्यानुबद्धस्य व्यवहारस्य व्याख्या
हास्या निरस्तसामान्यान्तरसम्बन्धस्य श्रूयमाणत्वानुगुणमेव ग्रहणं न स्यात् , किन्तु सर्वव्यपदेशविशेषाभिव्यङ्गयो भाव एव तेन तेन रूपेणाभिव्यज्यते, ततो घटाधन्यतरभेदश्रुतौ सर्वरूपभेदभावप्रतीतिप्रसङ्गस्ततश्च घटपटोदकादिरूपव्यतिकरभावानिश्चयाभावप्रसङ्गः, उपदेशकियोपभोगापवर्गव्यवस्थादीनां चाभावात् सर्वसंव्यवहारोच्छेदः, सर्वविशेषव्याकरणे च निर्निबन्धनभवनाभावाद् भावाभाव एव, अविशेषत्वाभेदत्वानिरूप्यत्वादितमश्च नैवासौ भावः खरविषाणादिवत् , तस्माद् व्यवहारोपनिपतितसामान्योपनिबन्धनं तु यदेव यद् यदा द्रव्यं पृथिवीघटादि व्यपदिश्यते तदेव तत् तदा त्रैलोक्याविभिन्नरूपं सततमवस्थितापरित्यक्तात्मसामान्यं महासामान्यप्रतिक्षेपेण संव्यवहारमार्गमास्कन्दतीति । एवंविधवस्तूपनिवन्धनैव च वर्णाश्रमप्रतिनियतरूपा यमनियमगम्यागम्यभक्ष्याभक्ष्यादिव्यवस्था, कुम्भकारादेश्व मृदानयनावमर्दनशिवकस्थासकादिकरणप्रवृत्ती वेतनकादिदानस्य साफल्यम् , अव्यवहार्यत्वाञ्च शेषमवस्तु, व्योमेन्दीवरादिवदिति । ऋजु-सममकुटिलं सूत्रयति ऋजु ऋजसत्रस्य वा श्रुतम् आगमोऽस्येति सूत्रपातनवद् वा ऋजुसूत्रः, यस्मादतीतानागतवक्रपविचारः रित्यागेन वर्तमानपदवीमनुधावति, अतः साम्प्रतकालावरुद्धपदार्थत्वात् ऋजु१ निश्चितेन' इत्यपि पाठः । २ 'भावनिश्चया.' इति क-ग-पाठः। ३'दितश्च : इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org