________________
प्रकाराः
सूत्र ३३]
स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-अत्राह-उक्तं भवता सम्यग्दर्शनपरिगृहीतं मत्यादि ज्ञानं भवत्यन्यथाऽज्ञानमेवेति । मिथ्यादृष्टयोऽपि च भव्याश्चाभव्याश्चेन्द्रियनिमित्तानविपरीतान् स्पर्शादीनुपलभन्ते, उपदिशन्ति च स्पर्श स्पर्श इति रसं रस इति, एवं शेषान् , तत् कथमेतदिति । अत्रोच्यते-तेषां हि विपरीतमेतद् भवति ॥३२॥ ___टी-उक्तं भवता-प्रतिपादितं त्वया सम्यग्दर्शनेन जीवादितत्त्वश्रद्धानरूपेण परिगृहीतं मत्यादि ज्ञानं भवति । यथावद् वस्तुपरिच्छेदीतियावत् । अन्यथा तु मिथ्यादृष्टिना परिगृहीतं मत्यादित्रयं कुत्सितं ज्ञानमज्ञानमेवेति, तदेतन्न मृष्यते, यतः
मिथ्येत्यादि । मिथ्यादृष्टयोऽभिगृहीतमिथ्यादर्शनाः शाक्यादयः, मिथ्यादृष्टीनां
अनभिगृहीतमिथ्यादर्शनाः, प्रवचनार्थसन्देहिनश्च त्रिविधा इति ।
अपिः सम्भावने, चः समुच्चये, ते मिथ्यादृष्टयो द्विधा भव्याश्चाभव्याश्च, सेत्स्यन् भव्यः, नैव कदाचित् सेत्स्यति यः सोऽभव्यः । ते मिथ्यादृष्टयो द्विविधा अपि, इन्द्रियनिमित्तानिति इन्द्रियाणि-श्रोत्रादीनि तानि निमित्तं-कारणमाश्रित्य अविपरीतान्-यथावस्थितान् स्पर्शादीनिति स्पर्शरसगन्धरूपशब्दान् उपलभन्ते आत्मना, उपदिशन्ति च अन्येभ्यः । कथमुपलभन्ते कथं चोपदिशन्ति ? अवैपरीत्येन, तच्चावैपरीत्यं दर्शयति-स्पर्श-शीतादिकं स्पर्शमिति अविपरीततामाचष्टे, रसं-मधुरादिकं रसमिति एवमविपरीतमेवं शेषान्-शब्दरूपानवैपरीत्येन । तत् कथमेतदिति, बाधके हि प्रत्यये सत्ययथार्थता प्रत्ययान्तरस्य आश्रयितुं शक्या, यथा शुक्तिकाबुद्धया रजतबुद्धिर्वाधिकया शुक्तिकाबुद्धया निवर्त्यते, नैवमत्र बाधकं कश्चित् प्रत्ययं पश्यामो यद्बलान्मिथ्यादृष्टीनां तदयथार्थ ज्ञानं मन्येमहीति ?। अत्रोच्यते-तेषांमिथ्यादृष्टीनां यस्मात् तद् विज्ञानं विपरीतमेवेति, अयथार्थपरिच्छेदित्वात् ॥३२॥ कुतः?
सूत्रम्-सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवत् ॥ १-३३॥
टी०-सदसतोरित्यादि । सद्-विद्यमानं असद-अविद्यमानं तयोः सदसतोःविद्यमानाविद्यमानयोः अविशेषाद्-यथावदवबोधाभावाद्, विद्यमाने हि पदार्थे उत्पादादिरूपेणान्यथावबोध एकनयाश्रयेणेति, अविद्यमानेऽपि ललाटदेशाध्यास्यात्मा सामस्त्येन हृदयाधिष्ठानो वा, एवं सदसतोरविशेषादयथावबोधात् तदज्ञानं, यदृच्छोपलब्धेरिति अनालोचिता अर्थोपलब्धिस्तस्या यदृच्छोपलव्धेः स्पर्शादिपरिज्ञानं भवति, उन्मत्तस्येव ।। भा०-यथोन्मत्तः कर्मोदयादुपहतेन्द्रियमतिविपरीतग्राही भवति । सोऽश्वं
... गौरित्यध्यवस्यति गां चांश्व इति लोष्टं सुवर्णमिति सुवर्ण लोष्ट मिथ्यादृष्टेः अज्ञानित्वे हेतुः ३
- इति लोष्टं च लोष्ट इति सुवर्ण सुवर्णमिति तस्यैवमविशेषेण
लोष्टं सुवर्ण सुवर्ण लोष्टमिति विपरीतमध्यवस्यतो नियत१'चाश्व इति' इति घ-पाठः, 'चाश्वमिते ' इति ग-पाठः ।
१५
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org