________________
११२
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः१ ग्रन्थः 'ज्ञानदर्शनावरणयोस्तु कृत्लक्षयात् केवलज्ञानदर्शने भवतः तस्मान्न केवलिनः शेषाणि ज्ञानानि सन्ति,' ज्ञानदर्शनयोर्विशेषसामान्यग्राहकयोर्ये आवरणे-आच्छादने तयोरेव कृत्लक्षयात् केवले ज्ञानदर्शने-विशेषसामान्यग्राहके उत्पद्येते, अतश्चत्वारि क्षयोपशमनिमित्तान्येकं क्षयादेव केवलं कथं पुनरत्र सहावस्थायिता घटेत?॥३१॥ एवं मत्यादि ज्ञानपञ्चकं प्रमाणं प्रदर्य प्रमाणाभासाविश्चिकीर्षया आह
सूत्रम्-मतिश्रुतावधयो विपर्ययश्च ॥ १-३२॥ भा०-मतिज्ञानं, श्रुतज्ञानं, अवधिज्ञानमिति विपर्ययश्च भवति, अज्ञानं
.. चेत्यर्थः । ज्ञानविपर्ययोऽज्ञानमिति । अत्राह-तदेव ज्ञानं तदेमत्यादीनां विपर्ययः।
- वाऽज्ञानमिति, ननु छायातपवच्छीतोष्णवच तदत्यन्तविरुद्ध" मिति । अत्रोच्यते
टी-मतिश्रुतावधयो विपर्ययश्च, यथोक्तलक्षणा मतिश्रुतावधयस्त्रयोऽपि विपर्ययश्च भवत्यज्ञानं चेत्यर्थः, ज्ञानाधिकारस्य प्रकृतत्वात् ज्ञानस्य विपर्ययो विपरीतता अज्ञानं, प्रमाणाभास इतियावत् । यदा यथार्थपरिच्छेदि तदा ज्ञानं, यदा त्वयथार्थे प्रवर्तते तदा ज्ञानाभासम् । एवमुक्ते पर आह-एकस्य विरुद्धधर्मद्वयसमारोपो न युक्त इति, तदेव मत्यादित्रयं प्रमाणं तदेव चाप्रमाणमिति छायातपवद् विरोधित्वादेकत्रासाम्प्रतम् , एतदाहननु छायातपवद् विरुद्धमेतत् , यो हि छायायामेवातपं मन्यते आतपे वा छायां तदत्यन्तविरुद्धं स्यात् । प्रतीतिविरोधश्च तथा, यो हि शीतमुष्णं ब्रूयात् उष्णं च शीतमिति प्रत्यक्षविरुद्धं च जायते । अत्रोच्यते-न ब्रूम एकत्राधारे एतत्त्रयं ज्ञानमज्ञानं च, किन्त्वन्यत्र ज्ञानमन्यत्र चाज्ञानमिति । क तर्हि ज्ञानम् ? सम्यग्दृष्टौ योऽवबोधस्तज्ज्ञानम् , आधारान्तरे मिथ्यादृष्टौ योऽवबोधस्तदज्ञानम् । एतदाह
भा०-मिथ्यादर्शनपरिग्रहाद् विपरीतग्राहकत्वमेतेषाम् । तस्मादज्ञानानि भवन्ति, तद् यथा-मत्यज्ञानं, श्रुताज्ञानं, विभङ्गज्ञानमिति । अवधिर्विपरीतो विभङ्ग इत्युच्यते ॥
टी०-मिथ्यादर्शनेत्यादि । मिथ्यादर्शनेन-तत्त्वार्थाश्रद्धानरूपेण परिग्रहो यदा मत्यादित्रयस्य तदा विपरीतग्राहकत्वं-अयथार्थवस्तुपरिच्छेदित्वम् एतेषामिति मतिश्रुतावधीनां तस्मात् कारणात् अज्ञानानि कुत्सितान्ययथार्थपरिच्छेदीनि भवन्ति
मत्यादीनि । मिथ्यादृष्टिपरिगृहीता मतिमत्यज्ञानं, मिथ्यादृष्टिपरिमिथ्याहशाम
म. गृहीतं श्रुतं श्रुताज्ञानं, मिथ्यादृष्टिपरिगृहीतोऽवधिर्विभङ्ग इति । विभङ्ग शानिता
इत्यस्य चार्थे प्रकाशयति-अवधिर्भवक्षयोपशमनिमित्तो विपरी. तोऽन्यथावस्तुपरिच्छेदी विभङ्ग इति, यथावस्थितवस्तुपरिच्छेदि च प्रमाणमिष्टं, न चैतत् तथेत्यतः अप्रामाण्यं मिथ्यादृष्टिपरिगृहीतानामिति । अत्राप्रामाण्ये ख्यापिते मिथ्यादृष्टिपरिगृहीतस्य मत्यादित्रयस्य चोदक आह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org