________________
११०
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः १ उद्योतनं प्रति अकिञ्चित्कराणि भवन्ति न किञ्चिद् बहिरवस्थितं कुड्यादिविषयं प्रकाशयन्ति, हतप्रभावत्वात् , तद्वदिति तेन प्रकारेण केवलभास्वता भूरितेजसाऽऽक्रान्तानि न विषयप्रकाशनं प्रति व्याप्रियन्ते ॥
सम्प्रति पराभिप्रायेणैव मत्यादिज्ञानचतुष्टयस्य केवलेन सहानवस्थानं दर्शयति--
भा०-केचिदप्याहु:-अपायसद्व्य तया मतिज्ञानं, तत्पूर्वकं श्रुतज्ञानम् , अवधिज्ञानमनःपर्यायज्ञाने च रूपिद्रव्यविषये, तस्मान्नैतानि केवलिनः सन्तीति॥
टी०-केचिदप्याहुरित्यादि । केचित् पुनर्बुवते-नैतानि मत्यादीनि केवलिनः सन्ति, यस्मान्मतिज्ञानं अपायसद्व्यतया भवति, अपायो नाम श्रोत्रादीन्द्रियोपलब्धस्येहितस्यार्थस्य निश्चयः, नैवंविधोऽपायः केवलिनोऽस्ति, यावच्च शोभनानि सम्यग्दलिकानि सन्ति तावन्मतिज्ञानं, तदेतद द्वयमपि दूरोत्सारितं केवलिन इति नास्ति मतिज्ञानं केवलिनः, मतिज्ञानाभावे च मतिपूर्वकस्य श्रुतस्य सुतरामभाव इत्यतः श्रुतमपि नास्ति, अवधिमनःपर्यायज्ञाने च रूपिद्रव्यविषये गदिते, न चैवंविधोऽस्ति विषयः केवलिनः, सम्भिन्नलोकालोकग्राहित्वात् , तस्मात् ते अपि न स्त इति, तस्मादुपपत्तिबलादेतानि चत्वारि केवलिनो दिव्यदृश्वनो न सन्ति ।। भा०–किश्चान्यत् । मतिज्ञानादिषु चतुर्पु पर्यायेणोपयोगो भवति, न युग
. पत् । सम्भिन्नज्ञानदर्शनस्य तु भगवतः केवलिना युगपत् क्रमयुगपदुप. सर्वभावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानुसमयमुयोगी
पयोगो भवति ॥ किं चान्यत् । टी-किश्चान्यदित्यादिना स्वाभिप्रायद्वयं प्रकाशयन्ति-मतिज्ञानादिषु चतुर्यु मतिश्रुतावधिमनःपर्यायज्ञानेषु पर्यायेण-क्रमेण उपयोगः-स्वीयविषयग्राहिता भवति न युगपत् , कस्मिन् काले न स्वस्व विषये एषां व्यापारः ? यदा मतिज्ञानी मतिज्ञानेनोपयुक्तो न तदा श्रुतादीनामन्यतमेन केनचित् , यदा च श्रुतज्ञानेनोपयुक्तो न तदा मत्यादीनामन्यतमेनेति, केवलिनस्तु न क्रमेणतज्ज्ञानगतोऽस्त्युपयोगः, यतः सम्भिन्न इत्यादि । ज्ञानंविशेषग्राहि, दर्शनं--सामान्यग्राहि, ज्ञानं च दर्शनं च ज्ञानदर्शने, सम्भिन्ने-सर्वद्रव्यपर्यायग्राहके ज्ञानदर्शने यस्य स सम्भिन्नज्ञानदर्शनः तस्य, एवं माहात्म्यादिगुणान्वितस्य भगवतः, केवलं-सर्वार्थग्राहि ज्ञानं यस्यास्ति तस्य केवलिनः, युगपत्-एकस्मिन् समये, केवलज्ञाने अनुसमयमुपयोगो भवति दर्शने च । कीदृशि केवलज्ञाने दर्शने वा ? । उच्यतेसर्वभावग्राहके । सर्वे भावाः-पञ्चास्तिकायास्तेषां ग्राहक, विशेषेण परिच्छेदकमित्यर्थः। निरपक्षे । निर्गता अपेक्षा ज्ञेयं मुक्त्वाऽन्यत्र इन्द्रियादौ यस्य तन्निरपेक्षं तस्मिनिरपेक्षे केवलज्ञाने विशेषग्राहिणि दर्शने च सर्वभावग्राह के निरपेक्षे सामान्यग्राहिणि । अनुसमयमुपयोगो भवतीति । अनुगतः-अव्यवहितः समयः-अत्यन्ताविभागः कालो यत्र कालसन्ताने स कालसन्तानोऽनुसमयस्तमनुसमयं कालसन्तानमुपयोगो भवति, “कालाध्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org