SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ केवले शेष सूत्र ३१] स्वोपज्ञभाष्य-टीकालङ्कृतम् १०९ टी-श्रुतज्ञानेत्यादि । श्रुतज्ञानस्य एवं ग्रन्थानुसारिणो मतिज्ञानेन इन्द्रियानिन्द्रियनिमित्तेन नियतो-निश्चितः सहभावः एकत्रवृत्तिरूपः, किं कारणम् ? तत आह.. तत्पूर्वकत्वात्-मतिज्ञानपूर्वकत्वात् श्रुतस्य, सति हि मतिज्ञाने श्रुतज्ञानसम्भव इति, अतो यस्य जन्तोः श्रुतज्ञानं ग्रन्थानुसार्यस्ति तस्य जन्तोनियतमिन्द्रियानिन्द्रियनिमित्तं मतिज्ञानं सम्भवति, तस्माच्छुतज्ञानं यत्र प्राणिनि तत्र द्वे मतिश्रुते अवश्यं दृश्ये, यस्य तु जीवस्य मतिज्ञानं केवलं निसर्गसम्यग्दर्शनकालेऽनवाप्ताक्षरश्रुतस्य तस्य श्रुतज्ञानं स्याद् उत्तरकालं पठतो, न वाऽनधीयानस्येति, तस्माद यत्रै दर्श्यते तत्र मतिज्ञानं निदर्श्यते, श्रुताभावेऽपि भावादिति । एवं भजनायां निदर्शितायां चोदयत्यत्रावसरे--अथ केवलज्ञानस्य सकलज्ञेयग्राहिणः पूर्वैः-पूर्वकालप्राप्यैः पूर्वैर्वा सन्निवेशमङ्गीकृत्याभिधीयते मतिज्ञानादिभिश्चतुर्भि:सह किं सहभावः-सहावस्थानं भवति नेति ? । उच्यते-अन्यमतप्रचिकटयिषयाऽऽहभा०-केचिदाचार्या व्याचक्षते-नाभावः, किन्तु तदभिभूतत्वादकिश्चि ___ कराणि भवन्तीन्द्रियवद्। यथा वा व्यभ्रे नभसि आदित्य सद्भावेऽन्यमतम् - उदित भूरितेजस्त्वादादित्येनाभिभूतान्यन्यतेजांसि ज्वलनम - णिचन्द्रनक्षत्रप्रभृतीनि प्रकाशनं प्रति अकिञ्चित्कराणि भवन्ति तददिति । टी०-केचिदित्यादि, मत्तोऽन्ये व्याचक्षते सूरयः, नाभाव एवास्ति, कथं हि सतो वस्तुनः आत्यन्तिको नाशः स्यात् ? यदि च स्यात् ततो यथैव केवलभास्वति जाते ज्ञानचतुष्टयमेवमन्येऽपि शमवीर्यदर्शनसुखितत्वादयो नश्यन्तु, न च तेषां नाशोऽभ्युपेयते, तस्मात् सहावस्थानमस्त्येव, यदि तद्यस्ति सहावस्थानं मत्यादिज्ञानचतुष्टयस्य केवलेन सह ततः किमिति स्वमर्थं न प्रकाशयन्ति ? उच्यते-अभिभवात् , तदाह-किन्त्वभिभूतत्वात्हतप्रभावत्वात् अकिश्चित्कराणि न किञ्चिदपि कर्तुं प्रकाशनं प्रभवन्ति । तत्र दृष्टान्तमाह-यथा हि केवलिनः सदपि चक्षुरादीन्द्रियं न व्याप्रियते विषयग्रहणं प्रति, प्रकाशितत्वात् केवलज्ञानेन, एवं मत्यादिचतुष्टयमपि अकिश्चित्कर, तदीयस्य ज्ञेयस्य केवलभास्वता प्रकाशितत्वात् । अथैतदपि सन्दिह्यते भगवतः केवलिनो यन्नेत्रं तद् विषयग्रहणं प्रति अकिञ्चिकरमिति, एवं सति असन्देहरूपं दृष्टान्तं दर्शयामः-यथा वा व्यभ्र इत्यादि, येन प्रकारेणैतत् स्थितं लोके, विगतान्यभ्राणि यत्र तत् व्यभ्रं तस्मिन् व्यभ्रे नभसि-वियति आदित्येकिरणमालिनि उदिते-प्रकटीभूते ज्वलनादीनि प्रकाशनं प्रत्यसमर्थानि भवन्ति, किमिति ? भूरितेजस्त्वादू-बहुतेजस्त्वात् , आदित्येन-सवित्रा अभिभूतानि-तिरोहितस्वसामर्थ्यानि अन्येषां तेजांसि अन्यतेजांसि, अन्यानि वा तेजआत्मकानि ज्वलनादीनि, ज्वलनोऽग्निः मणिः-सूर्यकान्तादिः चन्द्रः-शशी नक्षत्रम्-अश्विन्यादि, एतानि ज्वलनादीनि प्रभृतिःआदिर्येषां तेजसा तानि ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि तेजांसि-तेजोमयानि प्रकाशनम् १'न्यथाऽऽचक्षते' इति क-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy