________________
श्रुतस्य शुद्धता,
सूत्र २१]
स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-उक्तमेतत् साम्प्रतकालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं,
विशुद्धतरं च। किंचान्यत् । मतिज्ञानमिन्द्रियानिन्द्रियअपारिमामिकताच
Ha) निमित्तम्, आत्मने ज्ञस्वाभाव्यात् पारिणामिकं, श्रुतज्ञानं तु .
तत्पूर्वकमाप्तोपदेशाद् भवतीति ॥ २० ॥ अत्राह-उक्तं श्रुतज्ञानम् । अथावाधिज्ञानं किमिति । अत्रोच्यते
टी०-उक्तमेतदिति भदप्रयोजनं पुरस्तात् , तदेवोद्घटयति-वर्तमानकालविषयं-वर्तमानमर्थमालम्बते मतिज्ञानम् , श्रुतज्ञानं पुनस्त्रिकालविषयं त्रैकालिकमर्थमालम्बते, विशुद्धतरं च, व्यवहि विप्रकृष्टानेकसूक्ष्माद्यर्थग्राहित्वाद् विशुद्धतरमित्युच्यते, किंचान्यदिति । तथा अयमपरस्तयोवशेषः-मतिज्ञानमिन्द्रियाणि-स्पर्शनादीनि, अनिन्द्रियं-मन ओघज्ञानं च निमित्तमुररीकृत्य प्रवर्तते, आत्मनो-जीवस्य ज्ञस्वाभाव्यादिति । जानातीति ज्ञः, ज्ञत्वमेव स्वाभाव्यं ज्ञस्वाभाव्यमात्मरूपता, तस्मात् ज्ञस्वाभाव्यादिति । पारिणामिकमिति सर्वकालवर्ति, न कदाचित् संसारे, पर्यटत एतद् भ्रष्टम् , यतो निगोदजीवानामपि 'अक्षरस्यानन्तभागो नित्योद्घाट' इत्यागमः अतः पारिणामिकम् । श्रुतज्ञानं पुनवं सर्वदा जीवस्य भवति, यतस्तत्पूर्वकम् , मतिज्ञाने सति भवति नासतीत्यर्थः। तत्पूर्वकस्वेऽपि च सत्युपदेशमपेक्षते, यत आसोपदेशाद् भवतीति, आप्ताःरागादिविवर्जिताः अहंदादयः तेभ्य उपदेशो-वचनं ( तस्मात् ), तद्वचनमपेक्ष्य ग्रन्थानुसारि श्रुतज्ञानमुदेतीत्यर्थः। तस्मादेकं नित्यमपरं चानित्यमिति स्थापितम् ॥ २० ॥
अत्रावसरे चोदक आह-प्रतिपादितं भुतज्ञानं भवद्भिः, अस्मादनन्तरं यदवधिज्ञानं पुरस्ताभिरदिक्ष भवान् (किमिति) किंलक्षणं किंस्वरूपं तदित्याह
सूत्रम्-द्विविधोऽवधिः ॥ १-२१ ॥ टी-द्विविधोऽवधिः द्वे विधे-द्वौ भेदी यस्य स द्विविधः। तावेव द्वौ भेदौ दर्शयतिअवधेर्भदौ भा०-भवप्रत्ययः, क्षयोपशमनिमित्तश्च ॥ २१॥
टी--भवप्रत्यय इत्यादिना ॥ ननु च लक्षणे पृष्टे भेदकथनमन्याय्यम् , आम्रप्रश्ने कोविदारकथनवदप्रस्तावापास्तमिति ? । उच्यते-तदेव लक्षणं भेदद्वयकथनेन निरूप्यते इति न किश्चिद दुष्यति, भवेन-देवनारकाख्येन तल्लक्ष्यतेऽतो भवो लक्षणं ज्ञानं पुनर्लक्ष्यं भवतीति, तथा क्षयोपशमो लक्षणं ज्ञानं तु लक्ष्यम् । एतदुक्तं भवति-भवक्षयोपशमाभ्यां लक्ष्यमाणो द्विविधोऽवधिरिति नान्यत् किंचन कथ्यते, भवन्ति-वर्तन्ते कर्म(वश)वर्तिनो जन्तव इत्यस्मिन् भवो देवात्मतया यत्र स्थाने शरीरमाददते जीवाः स भवः नारकात्मतया च, प्रत्ययो निमित्तं कारणमिति, भवः प्रत्ययो यस्य स भवप्रत्ययः । अवश्यं ह्युत्पन्नमात्रस्यैव देवस्य नारकस्य वा सोऽवधिरुद्भवति, एतावता स भवप्रत्यय इत्यभिधीयते, तद्भावे भावात् तद
१' कियदस्यानन्तरमुद्दिष्टमिति' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org