________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः १ नङ्गानां, सुखेन च गृहीतं धारयिष्यन्ति बुद्धया, सुखेन विज्ञानं तस्मिन्नर्थे शृण्वत उत्पादयिष्यन्तीति, सुखेन अपोहं-निश्चयं करिष्यन्ति इति एवमेषोऽर्थः स्थित इति, सुखेन च प्रयोगव्यापारं करिष्यन्ति प्रत्यवेक्षणादिकाले तेन विदितेनेति ॥
भा०-अन्यथा ह्यनिबद्धमङ्गोपाङ्गशः समुद्रप्रतरणवद् दुरध्यवसानं स्यात्। एतेन पूर्वाणि वस्तूनि प्राभृतानि प्राभृतप्राभृतानि अध्ययनान्युद्देशाश्वव्याख्याताः॥
टी०-अन्यथेत्यादि । अन्यथेति भेदेन रचनाया अभावे हि यस्मादनिबद्धमरचितं, कथमिति चेत्, अङ्गोपाङ्गशः, अङ्गानि आचाराङ्गादीनि, उपाङ्गानि राजप्रसेनकीयौपपातिकादीनि, ताभ्यामडोपा भ्यां परिमिताविशिष्टाथामिधायिभ्यामङ्गोपाङ्गशः, अल्पार्थाच्छम् । समुद्रस्य प्रतरणम्-उत्तरणं तेन समुद्रप्रतरणेन तुल्यं वतेते समुद्रप्रतरणवत्, दुरध्यवसानं स्यादिति । दुःखेनाध्यवसीयते दुरध्यवसानम्। यावदेवदुक्तं भवति-यद्यतच्छ्रतज्ञानमङ्गोपाङ्गादिभेदेन न रच्येत एवं सत्यर्थानन्त्याद् ग्रन्थस्य चातिबहुत्वाद् दुःखेन शिष्यस्तत्र रतिं बध्नीयात् । यथा महार्णवं पश्यतः पुंसो न भवति चेतोवृत्तिबाहुभ्यां प्रतरामीति, प्रतरणप्रवृत्तोऽपि चान्तराल एव रसभङ्गं प्रतिपद्यते, एवमिहापि यदा पुनरङ्गोपाङ्गादिकल्पनया रचनया प्रविभक्तो भवति स महान् ग्रन्थराशिस्तदाऽदभ्रनदीतडामतरणवत् सुगमो भविष्यतीत्यतोऽद्धोपाङ्गनानात्वमिति ॥ अथ पूर्वादिरचना किमर्था इत्येवमाशङ्कथेत ? । उच्यते-तत्रापि नान्यत् करणे प्रयोजनमस्ति, किन्त्वेतदेव, तदाह-एतेनेत्यादि । एतेनाङ्गोपाङ्गभेदप्रयोजनेन सुखग्रहणादिना पूर्वाणि दृष्टिपातान्तःपातीनि पूर्व प्रणयनात्, वस्तूनि पूर्वस्यैवांशोऽल्पः वस्तुनःप्राभृतमल्पतरं, प्राभृतात् प्राभृतप्राभृतमल्पतरं, ततोऽध्ययनं ग्रन्थतोऽल्पतरं, तत उद्देशकोऽल्पतर इति । व्याख्यातानीति । सुखग्रहणादि यदेवाङ्गोपाङ्गादिकरणे फलं तदेवात्रापीति ॥ __भा०--अत्राह-मतिश्रुतयोस्तुल्यविषयत्वं, वक्ष्यति द्रव्येष्वसर्वपर्यायेषु (१-२७ ) इति । तस्मादेकत्वमेवास्त्विति । अत्रोच्यते
टी०-सम्प्रत्येवं मन्यते परः-श्रुतज्ञानस्य द्विविधादिकरणे सूक्तमनेन प्रयोजनं, यदुक्तं मया-कः पुनर्मतिज्ञानश्रुतज्ञानयोर्विशेष इति, तत्रानेन सांप्रतार्थग्राहि मतिज्ञानं त्रिकालविषयं तु श्रुतज्ञानमित्ययं विशेषो दार्शतः, तत्रैतावताऽप्यपरितुष्यन् विषयकृतं च साम्यमुभयोरस्तीति मन्यमानः अत्रावसरे ब्रवीति-मतिश्रुतयोरुक्तस्वरूपयोस्तुल्यविषयत्वमभिजग्राह, नासावाचक्ष्यते इहैवोत्तरत्र तस्य वक्ष्यमाणस्य सूत्रस्यैकदेशमुपन्यस्यति-द्रव्यष्वसर्वपर्यायेषु इति ॥ सर्वेषु धर्मादिद्रव्येष्वसर्वपर्यायेषु मतिश्रुतयोः प्रवृत्तिर्निबन्ध इति । तस्माद्-विषयादेकरूपात् एकत्वमेव मतिश्रुतयोर्भवतु, न भेद इति, अत्रोच्यते
१ :गृहीत्वा' इति ख-पाठः। २ 'दुरध्यवसेयं ' इति ख-पाठः। ३ 'रूपस्य ' इति ख-पाठः । ४ 'व्याख्याता इति' इति प्रतिभाति । ५ 'तत्रैवापरितुष्यन्' इति क-ख-पाठः । ६ 'वाचष्टे' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org