________________
अधिकार २० / श्लोक ३७२ / धनसारकथा
३९९
पूजयति विधानेन, जैनबिम्बानि भक्तित: । तत: करोति सम्पूर्णं, विधिवच्चैत्यवन्दनम् ॥१०॥ तत: स्तौति जिनं चारु-गम्भीरार्थमहास्तवैः । ततो महर्द्धितो याति, सानन्दो गुरुसन्निधौ ॥११॥ सुप्रशान्तं गुरुं भक्त्या, वन्दित्वा विधिपूर्वकम् । प्रत्याख्यानं यथाशक्त्या, करोति सपरिच्छदः ॥१२॥ ततो गुर्वाज्ञया शेष-सुसाधूनभिवन्दते । प्रतिपत्तिं मुदा कृत्वा, श्रावकाणां यथोचिताम् ।।९३॥ तत: शृणोति सिद्धान्तं, प्रमोदभरनिर्भरः । ततो याति निजे गेहे, धर्मऽऽकर्णनरञ्जित: ॥१४॥ ततो न्याय्यं करोत्येष, व्यवहारमनिन्दितम् । दापयित्वा ततो दानं, दीनादिभ्यो यथोचितम् ॥१५॥ साधुवर्ग वराहारैः, सद्भक्त्या प्रतिलभ्य च । कृत्वा तृप्तिं निजप्रेष्य-शिशुवत्सादिगोचराम् ॥१६॥ वन्दित्वा गृहचैत्यानि, भावसारं विशालधी: । प्रत्याख्यानं निजं स्मृत्वा, पठित्वा पञ्चमङ्गलम् ॥१७॥ काले भुङ्क्ते विधानेन, सुप्रशान्तो निराकुल: । हितं मितं वरं पथ्य-माहारं पुष्टिकारकम् ॥९८॥ भुक्तान्ते च शुचिर्भूत्वा, वन्दते जिनपुङ्गवम् । प्रत्याख्यानं तत: कृत्वा, विधाम्यति क्षणान्तरम्। भूयोऽपि याति साधूनां, पार्श्वे यदि निराकुल: । शृणोति तत्र सद्धर्मं, स्वाध्यायादि करोति च ॥१००॥ ततो याति निजे गेहे, 'चिकीर्षेद्यदि भोजनम् । नो चेत्तत्रैव साध्वन्ते, लात्वा सामायिकं ततः॥ प्रतिक्रामति संविग्न:, सममेव हि साधुभिः । ततो विश्रामणां शक्त्या, साधूनां प्रकरोति सः ॥१०२॥ ततो गत्वा निजे गेहे, शेते कृत्वोचितं विधिम् । इत्यादि सर्वदा सर्वं, सुश्रावकजनोचितम् ॥१०३।। विदधत्सदनुष्ठानं, गमयामास वासरान् । अन्यदा रथयानेन, सपत्नीक: सुमङ्गल: ॥१०४॥ गच्छन् ग्रामान्तरं कञ्चित्, पुरासन्नं ददर्श स: । पतितस्तम्भसघातं भग्नप्राकारतोरणम् ॥१०५॥ विशीर्णाशेषपट्टोघं, महजीर्णजिनालयम् । ततोऽसौ भार्ययाऽभाणि, यथेदं दृश्यते किमु ? ॥१०६॥ श्यामलं पर्वताकारं, महामेघसमप्रभम् । स प्रोवाच प्रिये ! जीर्ण-मेतजैनेन्द्रमन्दिरम् ॥१०७|| पतितं सर्वतो भग्नं, विशीर्णाशेषसन्धिकम् । एवं तावथ जल्पन्तौ, सम्प्राप्तौ च तदन्तिके ॥१०८॥ उत्तीर्य च रथात्तत्र, प्रविष्टौ तौ जिनालये । दृष्टं जैनेश्वरं बिम्बं, शान्तं कान्तं मनोहरम् ॥१०९॥ पूजितं च वरोदार-सुगन्धकुसुमादिभिः । कृतं च भक्तियोगेन, विधिवच्चैत्यवन्दनम् ॥११०॥ ततो बहिर्विनिष्क्रम्य, सपत्नीक: सुमङ्गल: । सम्यगालोकयामास, सर्वतस्तजिनालयम् ॥११॥ दृष्टं च तत्तथा तेन, भग्नलुप्तं समन्ततः । ततोऽसौ भार्ययाऽभाणि, धर्मे दत्तैकचित्तया ॥११२॥ किञ्चिन्ना[था]थ याचेऽहं, यद्यवश्यं ददासि मे । स प्राह याच्यतां यत्ते, रोचते मनस: प्रिये !॥ सावदन्नाथ ! यद्येवं, सुप्रसादोऽसि मामभि । तदेनमुद्धरस्व त्वं, शीर्णं जीर्णं जिनालयम् ॥११॥ गृहाण फलमेतासां, सन्ध्यारागचलथ्रियाम् । [संस्थापय निजात्मानं, मुक्तिलक्ष्मीगृहे द्रुतम् ॥११५॥ यतो जीर्णजिनागार-समुद्धारविधायिनाम् । सर्वज्ञागमवेत्तारो, वर्णयन्ति महाफलम् ॥११६॥
१ यदि करिष्यति-BJI करिष्येद्यदि-मु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org