________________
अवचौदह जीवसमासों में यथासंभव संतावन आस्रव कहते हैं। इगिदुतिचउरक्खेसु य सण्णीसु भासिया जे ते। अडतीसादी सयला, पणदाला कम्ममिस्सूणा।। ६६। सत्तसु पुण्णेसु हवे ओरिलिय मिस्सयं अपुण्णेसु। इगिइगिजोगविहीणा जीवसमासेसु ते णेया॥ ७०॥
एकद्वित्रिचतुरक्षेषु च संज्ञिषु भाषिता ये ते। अष्टात्रिंशदादयः सकलाः पंचचत्वारिंशत् कर्ममिश्रोनाः।। सप्तसु पूर्णेषु भवेत् औदारिकं मिश्रकं अपूर्णेषु।
एकैकयोगविहीना जीवसमासेषु ते ज्ञेयाः॥ गाथाद्वयेन सम्बन्धः । जीवसमासेसु ते णेया- ते प्रत्ययाश्चतुर्दशजीवसमासेषु ज्ञेया ज्ञातव्या भवन्ति इत्याह- इगिदुतिचउरक्खेत्यादि- एकद्विात्रचतुरिन्द्रियेषु च पुनः सयसंज्ञिजीवेषु ये अष्टात्रिंशदादयः सकलाः प्रत्ययाः पूर्वं भाषिताः। ते प्रत्ययाः पंचचत्वारिंशत् कथं भवन्ति? एकेन्द्रियादिराश्यपेक्षया अष्टात्रिंशत्प्रत्ययाः, द्वीन्द्रियस्य राश्यपेक्षया रसनेन्द्रियानुभयभाषयोरधिकत्वाच्चत्वारिंशत्प्रत्ययाः, त्रीन्द्रियस्य राश्यपेक्षया घ्राणेन्द्रियाधिकत्वादेकचत्वारिंशत्प्रत्ययाः, चतुरिंन्द्रियस्य चक्षुरधिकत्वाद्वाचत्वारिंशत्प्रत्ययाः, असंज्ञिपंचेन्द्रियस्य स्त्रीवेदपुंवेदश्रोत्राणामधिकत्वाद्राश्यपेक्षया पंचचत्वारिंशत्प्रत्ययाः। कथंभूताः पंचचत्वारिंशत् ? कम्ममिस्सूणा - कार्मण कायौदारिकमिश्रवैक्रियिकमिश्रोनाः। सत्तसु पुण्णेसु हवे ओरालिय- सप्तसु पर्याप्तसु जीवसमासेषु यथासंभवं पूर्वोक्ताः प्रत्ययाः, ओरालिय- औदारिकाययोगश्च भवेत्। मिस्सयं अपुण्णेसु-इति, अपर्याप्तेषु सप्तसु जीवसमासेषु, मिस्सयं -
औदारिकमिश्रः वैक्रियिकमिश्रो वा यथासंभवं भवति। इगिइगिजोगविहीणा- सप्तसु पर्याप्तेषु सप्तसु अपर्याप्तेषु एकैकयोगविहीनाः प्रत्यया भवन्ति। कोऽर्थः ? सप्तसु पर्याप्तेषु यदा औदारिककाययोगो भवति तदा औदारिकमिश्र योगो न भवति यदा अपर्याप्तेषु सप्तसु औदारिकमिश्रकायो भवति तदा औदारिककाययोगो न भवतीत्यर्थः। अथाल्पबुद्धीनां सम्यक्परिज्ञानाय चतुर्दशजीवसमासेषु प्रत्येकं यथासंभवं एतावन्तः प्रत्ययाः संभवन्तीत्याह – एकेन्द्रियसूक्ष्मापर्याप्ते मिथ्यात्वपंचकं षड्जीवनिकायानां विराधना स्पर्शनेन्द्रियस्यैकस्यानिरोध एवं सप्ताविरतयः ७ स्त्रीवेदपुंवेदद्वयवा अन्ये कषायस्त्रयोविंशतिः २३ औदारिकमिश्रकार्मणकाययोगौ द्वौ २ एवं सप्तत्रिंशत् ३७ प्रत्यया भवन्ति। एकेन्द्रियसूक्ष्मपर्याप्ते मिथ्यात्वं ५ अविरतयः ७ स्त्रीवेदपुंवेदवाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org