SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ (३७) अब चौदह जीव समासों में पन्द्रह योग कहते हैं णवसु चउक्के इक्के जोगा इगि दो हवंति बारसया। तब्भवगईसु एदे भवंतरगईसु कम्मइयो। ४३।। सत्तसु पुण्णेसु हवे ओरालिय मिस्सयं अपुण्णेसु। इगिइगिजोग विहीणा जीवसमासेसु ते णेया।। ४४।। नवसु चतुष्के एकस्मिन् योगा एको द्वौ भवन्ति द्वादश। तद्भवगतिषु एते भवान्तर्गतिषु कार्मणं।। सप्तसु पूर्णेषु भवेत् औदारिकं मिश्रकं अपूर्णेषु। एकैकयोगः द्विहीनाः जीवसमासेषु ते ज्ञेयाः।। गाथाद्वयेन सम्बन्धः। जीवसमासेसु ते णेया- जीवसमासेषु ते योगा ज्ञेया ज्ञातव्या भवन्ति। कथमित्याह- णवसु चउक्के इक्के जोगा इगि दो हवंति बारसया-- यथासंख्येन व्याख्येयं, नवसु जीवसमासस्थानेषु इगि- एको योगो ज्ञेयः। चउक्के-- चतुर्घजीव समासस्थानेषु दो- द्वौ योगौ ज्ञातव्यौ। इक्के- एकस्मिन् जीवसमासस्थाने, बारसया-- द्वादशयोगा भवन्ति । नवसु जीवसमासेषु एको योग इत्युक्तं तर्हि नवसमासाः के, तत्र एको योगा क इति चेदुच्यते- एकेन्द्रिय सूक्ष्मापर्याप्ते औदारिकमिश्रकाययोग एकः स्यात्। एकेन्द्रियसूक्ष्मपर्याप्ते औदारिककाययोग एको भवति। एकेन्द्रियबादरापर्याप्ते औदारिकमिश्र काययोगोऽस्ति। एकेन्द्रियबादरपर्याप्त औदारिककाययोग एको वर्तते। द्वीन्द्रियापर्याप्तकाले औदारिकमिश्रकाययोग एकः संभवति। त्रीन्द्रियापर्याप्तकाले औदारिकमिश्रकाययोग एकः स्यात्। चतुरिन्द्रिया. पर्याप्तकाले औदारिकमिश्रकाययोग एकः प्रवर्तते। पंचेन्द्रियासंज्ञिजीवापर्याप्ते औदारिकमिश्रकाययोग एकः स्यात्। पंचेन्द्रियसंज्ञिजीवापर्याप्तकाले औदारिकमिश्रकाययोग एको भवति। एवं नवसु जीवसमासस्थानेषु योग एको भवति। एवं चतुर्यु जीवसमासेषु द्वौ योगौ भवत इति प्रोक्तं तर्हि चत्वारो जीवसमासाः के तत्र द्वौ योगो को इत्याशंकायामाह-द्वीन्द्रियपर्याप्ते औदारिककाययोगानुभयवचनयोगौ भवतः। त्रीन्द्रियपर्याप्तकाले औदारिककाययोगानुभयवचनयोगौ स्तः। चतुरिन्द्रियपर्याप्ते औदारिककाययोगानुभयवचनयोगौ वर्तते। पंचेन्द्रियासंज्ञिपर्याप्ते औदारिककायोगानुभयवचनयोगौ संभवतः। इति चतुर्षु जीवसमासेषु द्वौ द्वौ योगौ प्ररूपितौ। एकस्मिन् जीवसमासे द्वादशयोगा भवन्तीति पूर्वगाथायां सूचितं तर्हि एको जीवसमासः .कः तत्र द्वादशयोगाः के इत्याह पंचेन्द्रियसंज्ञिपर्याप्तजीवसमासे अष्टौ मनोवचनयोगा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002711
Book TitleSiddhantasara
Original Sutra AuthorJinchandra Acharya
AuthorVinod Jain, Anil Jain
PublisherDigambar Sahitya Prakashan
Publication Year
Total Pages86
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy