SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् अथ धर्मशिक्षा विवक्षुः पीठमारचयन्नाहभो भो भव्या! भवाब्धौ निरवधिविधुरे बम्भ्रमद्भिर्भवद्भिदृष्टान्तैश्चोल्लकाद्यैर्दशभिरसुलभं प्रापि कृच्छान्नरत्वम्। तद्वत् क्षेत्रादिसामग्र्यपि समधिगता दुर्लभैवेति सम्यग् मत्वा माहाकुलीनाः कुरुत कुशलतां धर्मकर्मस्वजस्रम्॥२॥ व्याख्या-भो! इत्यामन्त्रणे, द्विर्वचनं तु सम्भ्रमे, ततश्च भव्या इत्यनेन मोक्षगमनयोग्या जीवाः सम्बोध्यन्ते। भो भो भव्या! नरत्वं प्राप्य धर्मकर्मसु कुशलतां कुरुतेति सम्बन्धः। नरत्वं क्व प्राप्येत्याह—भवाब्धौ संसारार्णवे, कीदृशे? निरवधिविधुरे नि:सीममहाकष्टे, किं कुर्वाणैः? बम्भ्रमद्भिः अत्यर्थं चतसृष्वपि गतिषु पर्यटनप्रवृत्तः। कै? इत्याहभवद्भिः युष्माभिरिति भव्यानां परामर्शः। कीदृशं नरत्वम्? असुलभम् दुःप्रापम् । कैः? इत्याह-दृष्टान्तैः उदाहरणैः । कतिसंख्योपेतैः? दशभिः दशसंख्याकैः। कीदृशैः? चोल्लकाद्यैः स्वामिना भृत्यादीनां स्वहस्तेन प्रसादीक्रियमाणं भोजनादिकं चोल्लकः, स आद्यो येषां पाशकादीनां ते तथा, तैः। तदुक्तम् चुल्लग पासग धन्ने, जूए रयणे य सुमिणचक्के य। चम्म जुगे परमाणू दस दिटुंता मणुयलंभे । [उत्तराध्ययननि० १६०] किम्? इत्याह–प्रापि प्राप्तम्, कस्मात्? कृच्छ्रात् महाकष्टसाध्यकर्म. क्षयोपशमविशेषात् । किम्? इत्याह—नरत्वं मनुजत्वम्। यथा च नरत्वं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy