________________
२७
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
यश्चाकरोत् महावृत्तैरिदं प्रकरणं लघु। धर्मशिक्षाभिधं भव्यसत्त्वानां शिवदं ततः॥ ६॥ समजनि जिनदत्तः सूरिरुत्सूत्रसूत्रच्छिदुरशितकृपाणी कल्पवाणीप्रपञ्चः। मनसिजगजसिंहो यस्य शिष्यः प्रसिद्धस्त्रिजगति जिनचन्द्रः सूरिरुद्भूततन्द्रः॥ ७॥ जिनपतिरिति सूरिस्तद्विनेयावतंसः समभवदिह येन प्रोज्ज्वलानि प्रचक्रे। गुणिजनवदनानि प्रौढ़वादीन्द्रवृन्द
व्रजविजयसमुत्थैरिन्दुगौरैर्यशोभिः॥ ८॥ तच्छिष्यलेशेन जडात्मनाऽपि प्रपञ्चिता किञ्चन धर्मशिक्षा। चक्रे सुबोधा जिनपालनाम्ना निदेशतः सूरिजिनेश्वराणाम् ॥ ९॥ येषामक्षोभवाचां सदसि रचयतां नव्यकाव्यप्रबन्धं बन्धुं मावस्य(?) वीक्ष्य क्वचिदपि विबुधेनाऽधुनाऽदृष्टपूर्वम्। आश्चर्यान्मोदपूर्णा सुललितवचनैः संस्तुवाना अजस्रं शीर्षं हर्षाश्रुवर्षप्लुतनयनयुगा धीधना धूनयन्ति ॥ १० ॥
व्याख्यातं यत् किमप्यत्रायुक्तं मान्द्यान्मतेर्मया। शोधनीयं विशेषज्ञैस्तद्विधाय कृपां मयि ॥ ११ ।। अधीयमाना संविग्नैरियं वृत्तिनिरन्तरम्। धरेव राजिता वर्णैश्चिररात्राय नन्दतात् ॥ १२ ॥
*
*
*
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org