________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
समाप्तं चेदं युगप्रवरागमश्रीमज्जिनवल्लभसूरिविरचितं
धर्मशिक्षाप्रकरणमिति ॥ छ।
शुभमस्तु। नमोऽस्तु वाग्देवतायै। नमोऽस्तु श्रीमज्जिनपतिसूरिचरणारविन्देभ्यः॥ छ॥
[वृत्तिकार-प्रशस्तिः ] गुणग्रहोष्णद्युति(१२९३)संख्यवर्षे पौषे नवम्यां रचिता सितायाम्। स्पष्टाभिधेयाद्भुतधर्मशिक्षावृत्तिर्विशुद्धा स्फटिकावलीव॥ १॥ यः श्रीमद्वर्द्धमानं जिनमनुहृतवान् सद्गुणैरिन्दुकान्तैः कान्तावैमुख्यदिव्यावगमसुसुकृताख्यानमुख्यैरसंख्यैः। स्वस्यान्येषां च शश्वत् सकलगुणमणीवर्द्धनाद्वर्द्धमानाभिख्यः श्रीमानिहासीनिजकुलदिनकृत्सूरिरुत्सृष्टभूरिः॥ २ ॥ तच्छिष्यः शस्यकीर्त्तिः पृथुनृपतिसदःकाननान्त:प्रगर्जत्प्राज्यप्रावादुकोद्यत्करिमदशमनप्रौढसिंहः क्रियाभिः। नानातर्कादिशास्त्रप्रणयनचतुरात्यन्तनिष्णातबुद्धिः सिद्धान्तार्थप्रदीपप्रवचनसदनोत्तम्भनस्तम्भलीलः॥ ३ ॥
सूरिर्जिनेश्वर इतीह बभूव शाखी यस्याऽभवत् फलयुगाकृतिशिष्ययुग्मम्। . तत्रादिमो निरुपमो जिनचन्द्रसूरि
रन्यो नवाङ्गनिधिदोऽभयदेवसूरिः॥ ४॥ ततोऽजनि श्रीजिनवल्लभाख्यः सूरिः सुविद्यावनिताप्रियोऽसौ। अद्यापि सुस्था रमते नितान्तं यत्कीर्तिहंसी गुणिमानसेषु ॥ ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org