________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
. ९४ शिक्षा भव्यनृणां गणाय मयकानर्थप्रदैनस्तरूं दग्धुं वह्निरभाणि येयमनया वर्तेत योऽमत्सरः। नम्यं चक्रभृतां जिनत्वमपि सल्लब्ध्वाज़पादः परं
रन्तासौ शिवसुन्दरीस्तनतटे रुन्द्रे नरः सादरम्॥ ४०॥ व्याख्या-योऽनया शिक्षया वर्तेत स शिवसुन्दरीस्तनतटे रन्तेति सम्बन्धः। अनया शिक्षया वर्तेत। या किमित्याह-अभाणि भणिता विस्तरेण प्रतिपादिता, कासावित्याह-शिक्षा हिताहितप्रवृत्तिनिवृत्तिरूप उपदेशः। कस्मै इत्याह-गणाय समूहाय, केषामित्याह-भव्यनृणां मुक्तिगमनयोग्यपुरुषाणामुपलक्षणं चैतत्तेन यथासम्भवं स्त्रीणामपि द्रष्टव्या। केनेत्याहमयका मया इत्यर्थः। कीदृशीति रूपकेणाह-वह्निः वैश्वानरः। किं कर्तुमित्याह-दग्धुं भस्मसाद् विधातुम्। कमित्याह-अनर्थाः चौरराजरोगदारिद्र्याधुपद्रवास्तत्प्रदं तद्विधायि यदेनः पापं तदेव दौर्भाग्यानादेयायश:प्रभृतिप्रभूतदुःप्रकृतिपत्रलत्वात्तरुर्वृक्षस्तम्। येति पूर्वोपदर्शिताष्टादशद्वाररूपा, इयमिति मानसानुभवप्रत्यक्षा न त्वतीतत्वेन तच्छब्दवाच्या। अत एवोक्तमनयेत्युपदर्शितरूपयैव यः कश्चित् सुकृतकर्मा नरो भव्यसत्त्वः । किमित्याह-वर्तेत प्रवृत्तिं कुर्यात् सादरमिति व्यवहितपदेन सम्बन्धः। क्रियाविशेषणं चैतत्ततश्च सबहुमानं यथा भवत्येवं प्रवर्तेत । अनादरकृतं हि शुभमप्यनुष्ठानं न विशिष्टफलसाधकं स्यादिति भावः। किं यथा तथा? नेत्याह-अमत्सरः परगुणासहिष्णुत्ववर्जितः। शेषगुणसद्भावेऽपि परगुणासहिष्णुत्वं सर्वगुणिजनगतसमस्तगुणद्वेषनिबन्धनत्वेनानन्तसंसारकारणमिति विशेषेण मत्सररहितत्वप्रतिपादनम्। अथैवं वर्त्तने फलमाहअसौ धर्म्यपदप्रवृत्तिमान् पुरुषः, किमित्याह-रन्ता क्रीडिष्यति। कीदृशः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org