SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ धर्मशिक्षा-प्रकरणं सवृत्तिकम् आधयो मानस्यः पीडाः, व्याधयः कुष्ट-काश-श्वासादयो बहुकालानुवर्तिनो रोगास्तेषां प्रबन्धाः सातत्येन भवनानि त एवातिगुरुत्वाद्वाधाविशेषाधायकत्वाच्च तिमिमकरा: जलचरविशेषा यत्र स तत्र पोतायमानं कृतधियो विहितसुकृतविधानबुद्धयो ददति वितरन्ति। किं तदित्याहपुस्तकान्येव लिखितसत्शास्त्रच्छेदपाट्यादीनि श्रुतज्ञानोत्पादकत्वात् ज्ञानदानं सम्यगवबोधवितरणम्। साम्प्रतं हि प्रायः समस्तप्राणिप्रियसम्पादकत्वाच्छेषदानेभ्यः पुस्तकदानमेव श्रेयः। तदुक्तम् साक्षात्तत्त्वविलोकिलोकविकले काले कलौ साम्प्रतं मिथ्याज्ञानतम:प्रदीपसदृशं निःशेषसौख्यावहम्। व्यालेख्यागमपुस्तकादिविधिना विद्वन्मुनिभ्यो भृशं सर्वप्राणिहिताय देयमसमं श्राद्धैः स्वयं भक्तितः॥ विस्मारकः कलियुगे सकलोऽपि लोक: प्रायः सदक्षरविलोकनजातबोधः। इत्याकलय्य धनिनो मुनिपुङ्गवेभ्यः सत्पुस्तकादि ददतीह त एव विज्ञाः॥ इति वृत्तार्थः॥ ३९॥ तदेवमष्टादशाऽपि द्वाराणि परिसमाप्य साम्प्रतं प्रकरणकारः स्वयं दत्तशिक्षानुसारेण प्रवृत्तिं कुर्वतां फलमादर्शयन्नेव परिसमाप्तिं चक्रबन्धेन प्राह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy