SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ११ धर्मशिक्षा-प्रकरणं सवृत्तिकम् तीव्रव्याधिलतासितासिरखिलान्तस्तापसर्पत्सुधा सारः पुस्तकलेखनं भुवि नृणां सज्ज्ञानदानप्रपाः॥ ३८॥ व्याख्या-पुस्तकलेखनं वर्त्तत इति क्रियायोगः। तथाहि-एतत् संसार एवान क्पिारत्वादर्णवः समुद्रस्तत्र नौस्तरणिस्तद्वत् पारप्रापकत्वात्। तथा विपदः आपदश्चोरराजादिव्यसनानि तेषु वनदवः आरण्यको वह्निरस्य च वह्निरूपणेन विपदां काष्ठरूपता स्वयमेवाभिव्यज्यत इति। अथवा विपद एवातिगहनत्वाद्वनं काननं तत्र दवः। तथा कोप एव दाहकत्वादग्निस्तत्र पाथोनिधिः जलाकरः, यथा तेनाग्निः सर्वथा शम्यते तथाऽनेनापि पठनश्रवणादिपरम्परया कोप इति भावः। तथा वासनं भावनं वासो मिथ्या विपर्यस्तो वासो मिथ्यासंस्कारः स एवान्तःकरणगगनप्रसरणशीलत्वाद्विसारी प्रसरणशीलो वारिदः मेघस्तत्र मरुत् प्रचण्डवातः, यथा तेन वारिदो विदार्यते तथाऽनन्तलिखितशास्त्रार्थज्ञानपरिणामेन मिथ्यासंस्कार इति भावः। तथा मोहः अज्ञानं तदेव सुबोधालोकाच्छादकत्वादन्धकारः तमस्तत्रांशुमान् आदित्यः। अत्रापि परम्परया तदुच्छेदकत्वं द्रष्टव्यम्। तथा तीव्राः समुत्कटा व्याधयः कुष्ट-ज्वरादयस्त एव वर्द्धनसाधर्म्याल्लता वल्लयस्तत्र सितासिः तीक्ष्णखड्गः लिखितशास्त्रार्थनिरन्तराभ्यासे हि भावातिशयाद् व्याधय इहलोकेऽपि तावन्निवर्तन्त एव, परलोके तु किं वक्तव्यमिति भावः। तथाऽखिलः समस्तोऽभ्याख्यानपैशून्यादिजन्योऽन्तस्तापः महांश्चित्तसंक्लेशस्तत्र सर्पन उल्लसन् सुधायाः अमृतस्यासारः वेगवान् वर्षः। अत्रापि तथैव शास्त्रार्थश्रवणपरिणामादिना स्वकर्मदोषपर्यालोचनेन मनःसन्तापनिवर्त्तकत्वमिति भावः। पुस्तकानां छेदपाटीप्रभृतिरूपाणां प्रसिद्धानां लेखनं शास्त्राक्षरविन्यसनं लेखकादिना। तत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy