SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ १८५ पूर्वोक्तपक्षत्रयस्यापि फलसिद्धावनङ्गत्वात् समुदायपक्षस्यैव च फलसिद्धिकरणत्वात्, आह च-"णाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिण्डंपि समाओगे मोक्खो जिणसासणे भणिओ ॥१॥" [ज्ञानं प्रकाशकं तपः शोधकं संयमश्च गुप्तिकरः । त्रयाणामपि समायोगे जिनशासने मोक्षो भणितः ॥१॥] तपःसंयमौ च शीलमेव, तथा-"संयोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥१॥ इति, [फलं संयोगसिद्ध्या वदन्ति एकचक्रेण न रथः प्रयाति । वनेऽन्धः पङ्गुश्च समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥१॥] द्वितीयव्याख्यानपक्षेऽपि मिथ्यात्वम्, संयोगतः फलसिद्धेदृष्टत्वाद्, एकैकस्य प्रधानेतरविवक्षयाऽसङ्गतत्वादिति, अहं पुनर्गौतम ! एवमाख्यामि यावत्प्ररूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेयः इत्येतावान् वाक्यशेषो दृश्यः, अथ कस्मादेवं ?, अत्रोच्यते-‘एवं'मित्यादि, एवं' वक्ष्यमाणन्यायेन'पुरिसजाय'त्ति पुरुषप्रकाराः ‘सीलवं असुयवं'ति कोऽर्थः ?, 'उवरए अविनायधम्मे'त्ति 'उपरतः' निवृत्तः स्वबुद्ध्या पापात् 'अविज्ञातधर्मा' भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः, गीतार्थानिश्रिततपश्चरणनिरतोऽगीतार्थ इत्यन्ये, 'देसाराहए'त्ति देशं स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः, सम्यग्बोधरहितत्वात् क्रियापरत्वाच्चेति, 'असीलवं सुयवं'ति, कोऽर्थः ?-'अणुवरए विनायधम्मे'त्ति पापादनिवृत्तो विज्ञातधर्मा चाविरतिसम्यग्दृष्टिरितिभावः, 'देसविराहए'त्ति देशंस्तोकमंशं ज्ञानादित्रयरूपस्य मोक्षमार्गस्य तृतीयभागरूपं चारित्रं विराधयतीत्यर्थः, प्राप्तस्य तस्यापालनादप्राप्तेर्वा, 'सव्वाराहए'त्ति सर्वं त्रिप्रकारमपि मोक्षमार्गमाराधयतीत्यर्थः, श्रुतशब्देन ज्ञानदर्शनयोः सङ्ग्रहीतत्वात्, न हि मिथ्यादृष्टिविज्ञातधर्मा तत्त्वतो भवतीति, एतेन समुदितयोः शीलश्रुतयोः श्रेयस्त्वमुक्तमिति 'सव्वाराहए'त्युक्तम् ॥ (भग०श०८, उ०१०, सू०३५४) उपसंहार गा०9 [142] से णं भंते ! तहा सजोगी सिज्झिहिए जाव अंतं करेहिइ ? णो इणढे समढे, से णं पुव्वामेव संण्णिस्स पंचिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं पढमं मणजोगं निरूंभइ, तयाणंतरं च णं बिंदियस्स पज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं बिइयं वइजोगं निरंभइ, तयाणंतरं च णं सुहमस्स पणगजीवस्स अपज्जत्तगस्स जहण्णजोगस्स हेट्ठा असंखेज्जगुणपरिहीणं तइयं कायजोगं णिरुंभइ, से णं एएणं उवाएणं पढममजोगं णिरंभइ मणजोगं णिरुभित्ता वयजोगं णिरुंभइ, वयजोगं णिरूंभित्ता कायजोगं णिरुंभइ, कायजोगं णिरुभित्ता जोगनिरोहं करेइ, जोगनिरोहं करेत्ता अजोगत्तं पाउणति, अजोगत्तं पाउणित्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy