________________
१८६
इसिंहस्सपंचक्खरउच्चारणद्धार असंखेज्जसमइअं अंतोमुहुत्तिअं सेलेसिं पडिवज्जइ, पुव्वरइयगुणसेढीयं च णं कम्मं तीसे सेलेसिमद्धाए असंखेज्जाहिं गुणसेढीहिं अजंते कम्मंसे खवेति वेयणिज्जाउयणामगुत्ते इच्चेते चत्तारि कम्मंसे जुगवं खवेइ वेदणिज्जा ।
ओरालियवेयाकम्माई सव्वाहिं विप्पयहणाहिं विप्पजहइ, ओरालियतेया कम्माई सव्वाहिं विप्पयहणाहिं विप्पवहित्ता उज्जूसेढीपडिवन्ने अफूसमाणगई उड्डुं एक्क समएणं अविग्गहेणं गंता सागरोवउत्ते सिज्झिहि । तेणं तत्थ सिद्धाहवंति सादीया अपज्जवसिया असरीरा जीवघणा दंसणनाणोवउत्ता निट्ठियत्ता निरेयणा नीरया निम्मला वितिमिरा विसुद्धा सासयमणागयद्धं कालं चिट्ठति ॥ ( सू०४३) ॥
से णं पुव्वामेव सन्निस्से 'त्यादि, अस्यायमर्थ:-स- केवली, णमित्यलङ्कारे, 'पूर्वमेव' आदावेव योगनिरोधावस्थायाः संज्ञिनो - मनोलब्धिमतः पञ्चेन्द्रियस्येति स्वरूपविशेषणं यतः संज्ञी पञ्चेन्द्रिय एव भवति, पज्जत्तस्स 'त्ति मनःपर्याप्त्या पर्याप्तस्य, तदन्यस्य मनोलब्धिमतोऽपि मनसोऽभाव एवेति पर्याप्तस्येत्युक्तं, स च मध्यमादिमनोयोगोऽपि स्यादित्याह - ' जहण्णजोगिस्स 'त्ति जघन्यमनोयोगवतः 'हे' त्ति अधो यो मनोयोग इति गम्यते, जघन्यमनोयोगसमानो यो न भवतीत्यर्थः, मनोयोगाश्च-मनोद्रव्याणि तद्व्यापारश्चेति, जघन्यमनोयोगाधोभागवर्तित्वमेव दर्शयन्नाह'असंखेज्जगुणपरिहीणं 'ति असङ्ख्यातगुणेन परिहीणो य: स तथा तं जघन्यमनोयोगस्यासङ्ख्येयभागमात्रं मनोयोगं निरुणद्धि, ततः क्रमेणानया मात्रया समये समये तं निरुन्धानः सर्वमनोयोगं निरुणद्धि, अनुत्तरेणाचिन्त्येन अकरणवीर्येणेति, एतदेवाह - 'पढमं मणजोगं निरुंभइ 'त्ति प्रथमं शेषवागादियोगापेक्षया प्राथम्येन - आदितो मनोयोगं निरुणद्धीति उक्तं च- “पज्जत्तमेत्तसन्निस्स जत्तियाई जहन्नजोगिस्स । होंति मणोदव्वाइं तव्वावारो य जम्मत्तो ॥ १ ॥ तदसंखगुणविहीणं समए समए निरुंभमाणो सो । मणसो सव्वनिरोहं करे असंखेज्जसमएहिं ॥२॥ "ति, एवमन्यदपि सूत्रद्वयं नेयम्, 'अजोगयं पाउणइत्ति अयोगतां प्राप्नोतीति, 'ईसिंहस्सपंचक्खरुच्चारणद्धाए 'त्ति ईसिंतिईषत्स्पृष्टानि स्वानि यानि पञ्चाक्षराणि तेषां यदुच्चारणं तस्य याऽद्धा-कालः सा तथा तस्याम्, इदं चोच्चारणं न विलम्बितं द्रुतं वा, किन्तु मध्यममेव गृह्यते, यत आह- "हस्सक्खराइं मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिं ओ तत्तियमेत्तं तओ कालं ॥१॥" शैलेशो- मेरुस्तस्येव स्थिरतासाम्याद्याऽवस्था स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org