________________
१८४ पुरिसे सीलवं सुयवं, उवरए विनायधम्मे, एस णं गोयमा ! मए पुरिसे सव्वाराहए पन्नत्ते, तत्थ णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असु तवं, अणुवरए अविण्णायधम्मे, एस णं गोयमा ? मए पुरिसे सव्वविराहए पन्नत्ते ॥ (सूत्रं ३५४)॥
'रायगिहे'इत्यादि, तत्र च ‘एवं खलु सीलं सेयं १ सुयं सेयं २ सुयं सेयं ३ सीलं सेयं ४' इत्येतस्य चूर्ण्यनुसारेणव्याख्या-'एवं' लोकसिद्धन्यायेन 'खलु' निश्चयेन इहान्यूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति न च किञ्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात्, घटादिकरणप्रवृत्त ? आकाशादिपदार्थवत्, पठ्यते च"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥" तथा-"जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स । एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोगईए ॥१॥" [यथा चन्दनभारवाही खरो भारभाग न चैव चन्दनस्य । एवं चरणहीनो ज्ञानी ज्ञानभाग् न तु सुगतेः ॥१।।] अतस्ते प्ररूपयन्ति-शीलं श्रेयः प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेय:-अतिशयेन प्रशस्यं श्लाघ्यं पुरुषार्थसाधकत्वात्, श्रेयं वा-समाश्रयणीयं पुरुषार्थविशेषार्थिना, अन्ये तु ज्ञानादेवेष्टार्थसिद्धिमिच्छन्ति न क्रियातः, ज्ञानविकलस्य क्रियावतोऽपि फलसिद्ध्यदर्शनात्, अधीयते च-"विज्ञप्तिं फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात् ॥१॥" तथा-पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही किं वा नाहीइ छेयपावयं ॥१॥" [प्रथमं ज्ञानं ततो दयैवं सर्वसंयतेषु तिष्ठति अज्ञानी किं करिष्यति किं वा ज्ञास्यति छेकं पापकं वा ॥१॥] अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं-श्रुतज्ञानं तदेव श्रेयः-अतिप्रशस्यमाश्रयणीयं वा पुरुषार्थसिद्धिहेतुत्वात् न तु शीलमिति, अन्ये तु ज्ञानक्रियाभ्यामन्योऽन्यनिरपेक्षाभ्यां फलमिच्छन्ति, ज्ञानं क्रियाविकलमेवोपसर्जनीभूतक्रियं वा फलदं क्रियाऽपि ज्ञानविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः, भणन्ति च-"किञ्चिद्वेदमयं पात्रम्, किञ्चित्पात्रं तपोमयम् । आगमिष्यति तत्पात्रम्, यत्पात्रं तारयिष्यति ॥१॥" अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः तथा शीलं श्रेयः ३, द्वयोरपि प्रत्येक पुरुषस्य पवित्रतानिबन्धनत्वादिति, अन्ये तु व्याचक्षते-शीलं श्रेयस्तावन्मुख्यवृत्त्या तथा श्रुतः-श्रुतमपि श्रेयो गौणवृत्त्या तदुपकारित्वादित्यर्थः इत्येकीयं मतम्, अन्यदीयमतं तु श्रुतं श्रेयस्तावत्तथा शीलमपि श्रेयो गौणवृत्त्या तदुपकारित्वादित्यर्थः, अयं चार्थ इह सूत्रे काकुपाठाल्लभ्यते, एतस्य च प्रथमव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org