________________
११५
ओदइए १ ओवसमिए २ खइए अ ३ तहा खओवसमिए अ ४ । परिणामि ५ सन्निवाए अ ६ छव्विहो भावलोगो उ ॥ २००॥ ( भा०)
व्याख्या– उदयेन निर्वृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिक:, क्षयेण निर्वृत्तः क्षायिक एवं शेषेष्वपि वाच्यम्, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च, एवं षड्विधो भावलोकस्तु तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति, उक्तं च"ओदइअखओवसमे परिणामेक्केको गइचउक्केऽवि । खयजोगेणवि चउरो तदभावे उवसमेपि ॥१॥ उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स | अविरुद्धसंन्निवाइयभेया एमेव पण्णरस ||२|| "त्ति गाथार्थः ॥ २००॥
तिव्वो रागो अदोसो अ, उन्ना जस्स जंतुणो ।
जाणाहि भावलोअं, अणंतजिणदेसिअं सम्मं ॥ २०९ ॥ ( भा० )
,
व्याख्या- 'तीव्र' उत्कटः रागश्च द्वेषश्च तत्राभिष्वङ्गलक्षणो रागः, अप्रीतिलक्षणो द्वेष इति एतावुदीर्णौ 'यस्य जन्तो:' यस्य प्राणिन इत्यर्थः तं प्राणिनं तेन भावेन लोक्यत्वाज्जानीहि भावलोकमनन्तजिनदेशितम् - एकवाक्यतयानन्तजिनकथितं 'सम्यग् ' इति क्रियाविशेषणम्, अयं गाथार्थः ॥ २०१ ॥ द्वारम्, साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह
दव्वगुण १ खित्तपज्जव २ भवाणुभावे अ ३ भावपरिणामे ४ | जाण चउव्विहमेअं, पज्जवलोगं समासेणं ॥ २०२॥ ( भा० )
व्याख्या - द्रव्यस्य गुणा: - रूपादयः, तथा क्षेत्रस्य पर्यायाः - अगुरुलघवः भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावः- तीव्रतमदुःखादि:, यथोक्तम्"अच्छिणिमिलीयमेत्तं णत्थि सुहं दुक्खमेव अणुबंधं । णरए पेरइआणं अहोणिसिं पच्चमाणा ॥१॥ असुभा उव्वियणिज्जा सद्दरसा रूवगंधफासा य । णरए
इआणं दुक्कयकम्मोवलित्ताणं ||२||" इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, 'जानीहि' अवबुध्यस्व चतुर्विधमेनमोघतः पर्यायलोकं 'समासेन' संक्षेपेणेति गाथार्थः ॥ २०२ ॥ तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org