SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ११४ द्रव्यम्, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इति गाथार्थः ॥१९५॥ साम्प्रतं जीवाजीवयोर्नित्यानित्यतामेवोपदर्शयन्नाहगइ १ सिद्धा २ भविआया ३ अभविअ ४-१ पुग्गल १ अणागयद्धा य २ । तीअद्ध ३ तिन्नि काया ४-२ जीवा १ जीव २ डिई चउहा ॥१९६॥ (भाष्यम्) ____ व्याख्या-अस्याः सामायिकवद् व्याख्या कार्येति, भङ्गकास्तु सादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाद्यपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः द्वारम् ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्र आगासस्स पएसा, उच्च अहे अतिरियलोए अ। जाणाहि खित्तलोगं, अणंत जिणदेसिअं सम्मं ॥ १९७॥ (भा०) व्याख्या-आकाशस्य प्रदेशाः-प्रकृष्टा देशाः प्रदेशास्तान् 'ऊर्ध्वं च' इत्यर्ध्वलोके च 'अधश्च' इत्यधोलोके च तिर्यग्लोके च, किं? जानीहि क्षेत्रलोकं, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, 'अनन्त' मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, 'जिनदेशितम्' इति जिनकथितं 'सम्यक्' शोभनेन विधिनेति गाथार्थः ॥१९७॥ साम्प्रतं काललोकप्रतिपादनायाह समयावलिअमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिआ सागर ओसप्पिपरिअट्टा ॥१९८॥ (भा०) व्याख्या-इह परमनिकृष्टः कालः समयोऽभिधीयते, असङ्ख्येयसमयमाना त्वावलिका, द्विघटिको मुहूर्तः, षोडश मुहूर्ता दिवसः, द्वात्रिंशदहोरात्रं, पञ्चदशाहोरात्राणि पक्षः, द्वौ पक्षौ मासः, द्वादश मासाः संवत्सरमिति, पञ्चसंवत्सरं युगं, पल्योपममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयम्, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, 'परावर्तः' पुद्गलपरावर्तः, स चानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकाल अनन्त एवैष्यनिति गाथार्थः ॥१९८॥ उक्तः काललोकः, लोकयोजना पूर्ववद् । अधुना भवलोकमभिधित्सुराह णेरइअदेवमणुआ तिरिक्खजोणीगया य जे सत्ता । तमि भवे वटुंता भवलोगं तं विआणाहि ॥१९९॥ (भा०) व्याख्या-नारकदेवमनुष्यास्तथा तिर्यग्योनिगताश्च ये 'सत्त्वाः'- प्राणिनः 'तंमि'त्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि, लोकयोजना पूर्ववदिति गाथार्थः ॥१९९॥ साम्प्रतं भावलोकमुपदर्शयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy