SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ततस्तस्यैव वणिजः सा ऋणदासी संजाता । अन्यदा चागतेन तेनैव बन्धुसाधुना विज्ञातस्तव्यतिकरः । कृता च तस्य वणिजो देशना । मोचयित्वा चेयं ग्राहिता दीक्षाम् । इत्येवं दासत्वदायकं स्तोकमपि ऋणम् । स्तोकोऽपि च व्रणशेषोऽपथ्यादिकमासाद्य विसर्पन्नन्तर्बहिश्च प्रसरन्नचिराद्. मरणं प्रयच्छति । अग्नेश्च लवोऽपि मार्गादौ पतितस्तृणादिके लग्नः परंपरया क्रमेण प्रसरन् समस्तमपि ग्रामनगरादिकं निर्दहति । एवं स्तोकशेषा अपि कषायाः कुतश्चिद् निमित्ताद् वृद्धिमुपगच्छन्तोऽनन्तं भवमुपकल्पयन्तीति ॥१३११॥ (विशेषा० भा० गा० १३११) 21/5 [98] तत्र लोकनिरूपणायाऽऽह णामं १ ठवणा २ दविए ३ खित्ते ४काले ५ भवे अ६ भावे अ ७। पज्जवलोगे अ ८ तहा अट्टविहो लोगणिक्खेवो ॥१०५७॥ व्याख्या-नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः ।. व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनाहत्य द्रव्यलोकमभिधित्सुराह जीवमजीवे रूवमरूवी सपएसमप्पएसे अ। जाणाहि दव्वलोगं, णिच्चमणिच्चं च जं दव्वं ॥१९५॥ (भा०) व्याख्या-जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौ-रूप्यरूपिभेदाद, आह च'रूप्यरूपिणावि'ति, तत्रानादिकर्मसन्तानपरिगता रूपिणः-संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः रूपिणस्तु परमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह'सप्रदेशाप्रदेशावि'ति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयम्, परमाणवस्त्वप्रदेशा एव, अन्ये तु व्याचक्षतेजीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यम्, पुद्गलास्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा-द्रव्यतः परमाणुरप्रदेशो द्व्यणुकादयः सप्रदेशाः, क्षेत्रत एकप्रदेशावगाढोऽप्रदेशो द्रव्यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते-इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकं द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy