SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ वन्नरसगंधसंठाणफासट्ठाणगइवनभए अ। परिणामे अ बहुविहे पज्जवलोगं विआणाहि ॥२०३॥ व्याख्या-वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद् रसादिभेदपरिग्रहः, अयमत्रः भावार्थ:-वर्णादयः सभेदा गृह्यन्ते, तत्र वर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पञ्चधा, गन्धः-सुरभिरित्यादिभेदाद् द्विधा संस्थानंपरिमण्डलादिभेदात्पञ्चधैव, स्पर्शः कर्कशादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शवद्गतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसंग्रहार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्व्याख्यातम् । परिणामांश्च बहुविधानित्यनेन तु चरमद्वारम्, शेषं द्वारद्वयं स्वयमेव भावनीयम्, तच्च भावितमेवेत्यक्षरगमनिका । भावार्थस्त्वयम्-परिणामांश्च बहुविधान् जीवाजीवभावगोचरान्, किं ? पर्यायलोकं विजानीहि इति गाथार्थः ॥२०३॥ अक्षरयोजना पूर्ववदिति द्वारम्, साम्प्रतं लोकपर्यायशब्दानिरूपयन्नाह आलुक्कइ अ पलुक्कइ लुक्कइ संलुक्कई अ एगट्ठा । लोगो अट्ठविहो खलु तेणेसो वुच्चई लोगो ॥१०५८॥ व्याख्या-आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति च संलोकः एते एकार्थिकाः शब्दाः, लोक: अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम्, अत एवाऽऽह-तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि भावनीयम्, गाथार्थः ॥१०५८।। व्याख्यातो लोकः । (आव०नि० १०५७-५८) 23/1 [99] अणुसोअपट्ठिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥२॥ एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चर्यागुणा अभिधेयाः, तत्प्रवृत्तौ मूलपादभूतमिदमाह-अनुस्रोतःप्रस्थिते नदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते बहुजने तथाविधाभ्यासात् प्रभूतलोके तथा प्रस्थानेनोदधिगामिनि, किमित्याह प्रतिस्रोतोलब्धलक्ष्येण द्रव्यतस्तस्यामेव नद्यां कथञ्चिद्देवतानियोगात् प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात् कथंचिदवाप्तसंयमलक्ष्येण प्रतिस्रोत एव दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव आत्माजीवो दातव्यः प्रवर्तयितव्यो भवितुकामेन संसारसमुद्रपरिहारेण मुक्ततया भवितु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy