________________
१०८
भवतीति यावत् ।
तथाहि—पृथिव्यादेर्मनुष्यपर्यन्तस्य षड्विधजीवनिकायस्य जीवत्वमागमेन अनुमानादिना च प्रमाणेन सिद्धं तथैव प्रतिपादयन् स्वसमयप्रज्ञापकः, अन्यथा तद्विराधकः । यतः प्रव्यक्तचेतने त्रसनिकाये चैतन्यलक्षणं जीवत्वं स्वसंवेदनाध्यक्षतः स्वात्मनि प्रतीयते, परत्र त्वपरेणानुमानतः । वनस्पतिपर्यन्तेषु पृथिव्यादिषु स्थावरेषु अनुमानतश्चैतन्यप्रतिपत्तिः । तथाहि "वनस्पतयश्चेतनाः वृक्षायुर्वेदाभिहितप्रतिनियतकालायुष्क-विशिष्टौषधप्रयोगसम्पादितवृद्धि - हानि-क्षत - भग्नसंरोहण-प्रतिनियतवृद्धि-षड्भावविकारोत्पादनाशावस्थानियतविशिष्टशरीरस्निग्धत्व- रुक्षत्वविशिष्टदौहृद - बालकुमार - वृद्धावस्था - प्रतिनियत - विशिष्टरस- वीर्यविपाकप्रतिनियतप्रदेशाहारग्रहणादिमत्त्वान्यथानुपपत्तेः, विशिष्टस्त्रीशरीरवत् " - इत्याद्यनुमानं भाष्यकृत्प्रभृतिभिर्विस्तरतः प्रतिपादितं तच्चैतन्यप्रसाधकमित्यनुमानतः तेषां चैतन्यमात्रं सिद्ध्यति । साधारण- प्रत्येकशरीरत्वादिकस्तु भेद:
'गूढसिर - संधि - पव्वं, समभंग- महीरुगं च छिन्नरुहं । साहारणं सरीरं तव्विवरीयं च पत्तेयं ।' (जीवविचार प्र० गाथा - १२) इत्याद्यागमप्रतिपाद्य एव ।
जीवलक्षणंव्यतिरिक्तलक्षणास्त्वजीवा धर्माऽधर्माकाश-काल- - पुद्गलभेदेन पञ्चविधाः । तत्र पुद्गलास्तिकायव्यतिरिक्तानां स्वतो मूर्तिमद् द्रव्यसम्बन्धमन्तरेण आत्मद्रव्यवदमूर्त्तत्वाद् अनुमानप्रत्ययावसेयता । तथाहि, गति - स्थित्यवगाहलक्षणं पुद्गलास्तिकायादिकार्यं विशिष्टकारणप्रभवं विशिष्टकार्यत्वात्, शाल्यङ्करादिकार्यवत्, यश्चासौ कारणविशेषः स धर्माऽधर्माऽऽकाशलक्षणो यथासंख्यमवेसयः । कालस्तु विशिष्टपरापरप्रत्ययादिलिङ्गानुमेयः । पुद्गलास्तिकायस्तु प्रत्यक्षाऽनुमानलक्षणप्रमाणद्वयगम्यः । यस्तेषां धर्मादीनामसंख्येयप्रदेशात्मकत्वादिको विशेषः तत्प्रदेशानां च सूक्ष्म-सूक्ष्मतरत्वादिको विभागः स 'कालो य होइ सुहुमो' ( ) इत्याद्यागमप्रतिपाद्य एव नागमनिरपेक्षयुक्त्यवसेयः । एवमाश्रवादिष्वपि तत्त्वेषु युक्त्यागमगम्येषु युक्तिगम्यमंशं युक्तित एव, आगमनम्यं तु केवलागमत एव प्रतिपादयन् स्वसमयप्रज्ञापकः, इतरस्तु तद्विराधक इति प्रज्ञापकलक्षणमवगन्तव्यम् ||४५|| ( सन्म० कां०-३, गा० ४५ ) 19/8
[92] आमोसहि विप्पोसहि खेलोसहि जलमोसही चेव । संभिन्नसोउज्जुमइ सव्वोसहि चेव बोद्धव्वो ॥६९॥ चारण आसीविस केवली य मणनाणिणो य पुव्वधरा । अरहंत चक्कवट्टी बलदेवा वासुदेवा य ॥७०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org