________________
१०९
आमर्शनमामर्शः संस्पर्शनमित्यर्थः । स एव औषधिर्यस्यासावामौषधिः साधुरेव संस्पर्शनमात्रादेव व्याध्यपनयनसमर्थ इत्यर्थः । लब्धि-लब्धिमतोरभेदात् स एवामर्शलब्धिरिति, एवं विटखेलजल्लेष्वपि योजना कर्तव्येति ।
___ तत्र ‘विड्'-उच्चारः 'खेल:'-श्लेष्मा 'जल्लो'-मल इति, भावार्थः पूर्ववत्, . सुगन्धाश्चैते भवन्ति । तथा यः सर्वतः शृणोति स संभिन्नश्रोता, अथवा श्रोतांसि इन्द्रियाणि संभिन्नान्येकैकशः सर्वविषयैरस्य परस्परतो वेति संभिन्नश्रोता: संभिन्नान् वा परस्परतो लक्षणतोऽभिधानतश्च सुबहूनपि शब्दान् शृणोति संभिन्नश्रोता, एवं संभिन्नाश्रोतृत्वमपि लब्धिरेव । तथा ऋज्वी मतिः-ऋजुमतिः सामान्यग्राहिकेत्यर्थः, मन:पर्यायज्ञानविशेषः अयमपि च लब्धिविशेष एव, लब्धिलब्धिमतोश्चाभेदात् ऋजुमतिः साधुरेव । तथा सर्व एव विण्मूत्रकेशनखादयो विशेषाः खल्वौषधयो यस्य व्याध्युपशमहेतव इत्यर्थः, असौ सौषधिश्च, एवमेते ऋद्धिविशेषा बौद्धव्या इति गाथार्थः ॥६९॥ द्वितीयगाथाव्याख्या-अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः, ते च द्विभेदाः-विद्याचारणा जङ्घाचारणाश्च, तत्र जङ्गाचारणः शक्तितः किल रुचकवरद्वीपगमनशक्तिमान् भवति, स च किलैकोत्पातेनैव रुचकवरद्वीपं गच्छति, आगच्छंश्चोत्पातद्वयेनागच्छति, प्रथमेन नन्दीश्वरम्, द्वितीयेन यतो गतः एवमूर्ध्वमपि एकोत्पातेनैवाचलेन्द्रमूनि स्थितं पाण्डुकवनं गच्छति, आगच्छंश्चोत्पातद्वयेनागच्छति प्रथमेन नन्दनवनं द्वितीयेन यतो गतः । विद्याचारणस्तु नन्दीश्वरद्वीपगमनशक्तिमान् भवति, स त्वेकोत्पातेन मानुषोत्तरं गच्छति, द्वितीयेन नन्दीश्वरम्, तृतीयेन त्वेकेनैवाऽऽगच्छति यतो गतः, एवमूर्ध्वमपि व्यत्ययो वक्तव्य इति । अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया व्याचक्षत इति। तथा आस्यो-दंष्ट्राः तास विषमेषामस्तीति आसीविषाः, ते च द्विप्रकारा भवन्ति-जातितः कर्मतश्च, जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चा सहस्रारादिति, एते हिं तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वासीविषा भवन्ति, देवा अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः । तथा केवलिनश्च प्रसिद्धा एव । तथा मनोज्ञानिनो विपुलमनःपर्यायज्ञानिनः परिगृह्यन्ते । पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुर्दशपूर्वविदः । अशोकाद्यष्टमहाप्रतिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तीर्थंकरा इत्यर्थः । 'चक्रवर्तिनः'-चतुर्दशरत्नाधिपाः षट्खण्डभरतेश्वराः । 'बलदेवाः'-प्रसिद्धा एव । 'वासुदेवाः'-सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः । एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः ॥७०॥ (आव० नि० गा०६९-७०) 20/1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org