________________
१०६
दोषधातुमलाकीर्णम्, कृमिगण्डूपदास्पदम् । रोगभोगिगणैर्जग्धम्, शरीरं को वदेत् शुचि ॥३॥ सुस्वादून्यन्नपानानि क्षीरेक्षुविकृती अपि । भुक्तानि यत्र विष्टायै, तच्छरीरं कथं शुचि ? ||४|| विलेपनार्थमासक्तः, सुगन्धिर्यक्षकर्दमः । मलीभवति यत्राशु, क्व शौचं तत्र वर्ष्मणि ? ॥ ५ ॥ जग्ध्वा सुगन्धि ताम्बूलम्, सुप्तो निश्युत्थितः प्रगे । जुगुप्सते वक्त्रगन्धम्, यत्र तत् किं वपुः शुचि ? ||६|| स्वतः सुगन्धयो गन्ध - धूप- पुष्पस्रगादयः । यत्सङ्गाद् यान्ति दौर्गन्ध्यम्, सोऽपि काय:. शुचीयते ॥७॥ अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः । न याति शुचितां काय: शुण्डाघट इवाशुचिः ॥८॥ मृज्जलानलवातांशुस्नानैः शौचं वदन्ति ये ।
गतानुगतिकैस्तैस्तु विहितं तुषकण्डनम् ॥९॥ शरीरकस्यैवमशौच भावनां, मदाभिमानस्मरसाददायिनीम् । विभावयन् निर्ममतामहाभरं, वोढुं दृढः स्याद् बहुनोदितेन किम् ? ॥१०॥ अशौचभावना ||६||७३ ॥ (योगशा० प्र०४, श्लो० ७३) 19/5
[89] नवि मुंडिएण समणो, न ॐकारेण बंभणो ।
न मुणी रण्णवासेणं, कुसचीरेण न तावसो ॥ २९ ॥
समयाए समणो होइ, बंभचेरेण बंभणो । नाणेन य मुणी होइ, तवेणं होड़ तावसो ॥३०॥
अन्यच्चव-नेति निषेधे, 'अपि:'- पूरणे, 'मुण्डितेन' - केशापनयनात्मकेन समं मनोऽस्येति निरुक्तविधिना श्रमण:-निर्ग्रन्थः, 'न'- नैव ॐकारो (रेणो) पलक्षणत्वाद् 'ॐ भूर्भुवःस्वः' इत्याद्युच्चारणरूपेण ब्राह्मण:, तथा न मुनिररण्यवासेन, कुशोदर्भविशेषस्तन्मयं चीवरं कुशचीवरम्, वल्कलोपलक्षणमेतत्, तेन तापसः, अनूदितं चैतद्वाचकैः - " मुण्डनात् श्रमणो नैव, संस्काराद् ब्राह्मणो न वा । मुनिर्नारण्य - वासित्वात् वल्कलान्न च तापसो ॥१॥ भवतीति सर्वत्र शेषः । कथममी तर्हि संभवन्तीत्याह- 'समतया' - रागद्वेषाभावरूपया श्रमणो भवति, ब्रह्मणश्चरणं ब्रह्मचर्यम्, ब्रह्म च द्विधा, यत उक्तम् - " द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्मपरं च यत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org