SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ [87] हृदयसन्निधापनमपि स्त्रीणां बहुदोषत्वाद् गुणहानिहेतुः किं पुना १०५ रमणमित्येतदेवाह वञ्चकत्वं नृशंसत्वम्, चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषा, यासां तासु रमेत कः ॥८४॥ वञ्चकत्वं-मायाशीलता, नृशंसत्वं - क्रूरकर्मकारिता, चञ्चलत्वं कुत्राप्यवस्थितचित्तत्वाभाव:, कुशीलता - दुःस्वभावता उपस्थसंयमाभावो वा, इत्येते नैसर्गिका:स्वाभाविका दोषा न त्वौपाधिकाः, तासु को रमेत ॥८४॥ www अत एव भवस्य बीजं नरकद्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलम्, दुःखानां खानिरङ्गना ॥८७॥ भवस्य- -संसारस्याङ्कुरस्येव बीजं तत्कारणत्वात् संसारस्य, नरकद्वारं-नरकप्रवेशः, तत्र यो मार्ग:-पन्थास्तत्र दीपिकेव दीपिका तत्प्रकाशकत्वात्, शुचां - शोकानां वल्लीनामिव कन्दस्तत्प्ररोहहेतुत्वात्, कले:- कलहस्य तरोरिव मूलं पादो वृद्धिहेतुत्वात्, दुःखानां- शारीर - मानसानां लवणादीनामिव खानिराकरस्तत्समुत्थत्वात् दुःखानाम्, काऽसौ ? अङ्गना । एवं तावद्यतिधर्मानुरक्तं गृहस्थं प्रति सामान्येन मैथुनदोषाः स्त्रीदोषाश्चोक्ताः ||८७ || (योगशा० प्र०२, श्लो० ८४-८७) 19/4 [88] ये त्वत्रापि शुचित्वमानिनस्तानुपालभते - नवस्त्रोतः स्त्रवद्विस्त्ररसनिः स्यन्दपिच्छिले । " देहेऽपि शौचसङ्कल्पो महन्मोहविजृम्भितम् ॥७३॥ नवभ्यो नेत्र २ - श्रोत्र २ - नासा २ - मुख - पायूपस्थेभ्य: स्रोतोभ्यो-निर्गमद्वारेभ्यः स्रवन्- क्षरन् विस्र - आमगन्धिर्योऽसौ रसस्तस्य निःस्यन्दो - निर्यासस्तेन पिच्छिलो विजिविलो यः कायस्तस्मिन्नपि शौचसङ्कल्पः शुचित्वाभिमानो यः स महद् गुरुतरं मोहस्य विजृम्भितम् । अत्रान्तरश्लोकाः शुक्रशोणितसम्भूतो मलनिः स्यन्दवर्धितः । गर्भे जरायुसंछन्नः शुचिः कायः कथं भवेत् ? ॥१॥ मातृजग्धान्नपानोत्थरसं नाडीक्रमागतम् । पायं पायं विवृद्धः सन् शौचं मन्येत कस्तनोः ? ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy