________________
क्वचित् पाठः, लोभभयादतीताः लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तस्मादतीताः सन्तोषिण इति, न पुनरुक्ता शङ्का विधेयेति, अतो (विधेयाऽत्र यतो) लोभातीतत्वेन प्रतिषेधांशो दर्शितः, सन्तोषिण इत्यनेन च विध्यंश इति, यदिवा लोभातीतग्रहणेन समस्तलोभाभावः सन्तोषिण इत्यनेन तु सत्यप्यवीतरागत्वे नोत्कटलोभा इति लोभाभावं दर्शयन्नपरकषायेभ्यो लोभस्य प्राधान्यमाह ये च लोभातीतास्तेऽवश्यं पापं न कुर्वन्ति इति स्थितम् ।। (सूयग० अ०१२, गा० १५) 11/5 श्रुत०१ [44] जहा कुम्मे सअंगाई, सए देहे समाहरे ।
एवं पावाई मेधावी, अज्झप्पेण समाहरे ॥ १६ ॥
जहा कुम्मे इत्यादि-'यथे'त्युदाहरणप्रदर्शनार्थः, यथा 'कूर्मः'-कच्छपः, 'स्वान्य-ङ्गानि'-शिरोधरादीनि, स्वके देहे समाहरेद्-गोपयेद्-अव्यापाराणि कुर्याद्। एवम्-अनयैव प्रक्रियया मेधावी-मर्यादावान् सदसद्विवेकी वा, पापानिपापरूपाण्य-नुष्ठानानि, अध्यात्मना-सम्यग्धर्मध्यानादिभावनया, समाहरेत्उपसंहरेत्, मरणकाले चोपस्थिते सम्यक्संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति ॥ १६ ॥ (सूयग० श्रुत०१ अ०८, गा०१६) 11/5
[45] आह- ज्ञानक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकरुते ? किमविशेषेण शिबिकोद्वाहकवद्, उत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवातवद् इति, अत्रोच्यते, भिन्नस्वभावतया यत आह
णाणं पयासगं सोहओ, तवो संजमो य गुत्तिकरो। तिण्हं पि समाजोगे, मोक्खो जिणसासणे भणिओ ॥१०३॥ व्याख्या-तत्र कचवरसमन्वितमहागृहशोधनप्रदीपपुरुषादिव्यापारवदिह जीव- - गृहकर्मकचवरभृतशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । तत्र ज्ञायतेऽनेनेति ज्ञानम्, तच्च प्रकाशयतीति प्रकाशकम्, तच्च ज्ञानं प्रकाशकत्वेनैवोपकुरुते, तत्स्वभावत्वात्, गृहमलापनयने प्रदीपवत्, क्रिया तु तपःसंयमरूपत्वाद् इत्थमुपकुरुते शोधयतीति शोधकम्, किं तदिति, आहतापयत्यनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनैवोपकुरुते, तत्स्वभावत्वाद्, गृहकचवरोज्झनक्रियया तच्छोधने कर्मकरपुरुषवत्, तथा संयमनं संयमः, भावे अप्प्रत्ययः, आश्रवद्वारविरमणमितियावत्, चशब्दः पृथग् ज्ञानादीनां प्रक्रान्तफलसिद्धौ भिन्नोपकारकर्तृत्वावधारणार्थः, गोपनं-गुप्तिः स्त्रियां क्तिम् (पा० ३-३-९४) आगन्तुककर्मकचवरनिरोध इति हृदयम्, गुप्तिकरणशीलो गुप्तिकरः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org