________________
४०
चैकान्तेन निराकार्यत्वात्, तनिषेधे च विधेयस्य संयमानुष्ठानस्य सामर्थ्यायातत्वात्तनिषेधमाह-अणारद्धं च इत्यादि, अनारब्धम्-अनाचीर्णं केवलिभिविशिष्टमुनिभिर्वा तन्मुमुक्षुर्नारभते-न कुर्यादित्युपदेशो, यच्च मोक्षाङ्गमाचीर्णं तत्कुर्यादित्युक्तं भवति । यत्तद्भगवदनाचीर्णं परिहार्यं तत्रामग्राहमाह-'छणं छणं' इत्यादि, “क्षणु हिंसायां" क्षणनं क्षणो-हिंसनं कारणे कार्योपचारात् येन येन प्रकारेण हिंसोत्पद्यते तत्तज्ज्ञपिरज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेद्, यदि वा क्षणः-अवसरः कर्तव्यकालस्तं तं ज्ञपरिज्ञया ज्ञात्वाऽऽसेवनापरिज्ञया च आचरेदिति ! .
किञ्च 'लोयसन्' इत्यादि लोकस्य-गृहस्थलोकस्य संज्ञानं संज्ञा-विषयाभिष्वङ्गजनितसुखेच्छा परिग्रहसंज्ञा वा तां च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च परिहरेत् । कथं ? सर्वशः-सर्वैः प्रकारैर्योगत्रिककरणत्रिकेणेत्यर्थः, तस्य एवंविधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः सत्पथव्यवस्थितस्य कुमार्गनिराचिकीर्षोहिंसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद्भवति तद् दर्शयति-उद्दिश्यते नारकादि व्यपदेशेनेत्युद्देशः स पश्यकस्य-परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युद्देशकपरिसमाप्ति यावद् तृतीयोद्देशके व्याख्यातानि तत एवार्थोऽवगन्तव्यः आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुनर्निहः कामसमनुज्ञः असमितदुःखः दुःखी दुःखानामेवावर्तनमनुपरिवर्तते । इति:-परिसमाप्तौ, ब्रवीमीति पूर्ववत् । (आचा० श्रु०१ अ० २ उ०६ सू०१०३-१०४) 11/5 [43] न कम्मुणा कम्म खवेंति बाला, अकम्मुणा कम्म खवेंति धीरा ।
मेधाविणो लोभमयावतीता, संतोसिणो नो पकरेंति पावं ॥ १५ ॥ किञ्चान्यत्- 'न कम्मुणा' इत्यादि, ते एवमसत्समवसरणाश्रिता मिथ्यात्वादिभिर्दोषैरभिभूताः सावद्येतरविशेषानभिज्ञाः सन्तः कर्मक्षपणार्थमभ्युद्यता निविवेकतया सावद्यमेव कर्म कुर्वते, न च 'कर्मणा'-सावद्यारम्भेण, 'कर्म'पापम्, 'क्षपयन्ति'-व्यपनयन्ति, अज्ञानत्वाद् बाला इव बालास्त इति, यथा च कर्म क्षिप्यते तथा दर्शयति-'अकर्मणा तु' आश्रवनिरोधेन तु अन्तशः शैलेश्यवस्थायां कर्म क्षपयन्ति 'वीराः'-महासत्त्वाः, सवैद्या इव चिकित्सयाऽऽमयानिति । मेधा-प्रज्ञा सा विद्यते येषां ते मेधाविन:-हिताहितप्राप्तिपरिहाराभिज्ञाः, लोभमयं परिग्रहमेवातीताः-परिग्रहातिक्रमात् लोभातीता:-वीतरागा इत्यर्थः, सन्तोषिणः-येन केनचित्सन्तुष्टा अवीतरागा अपीति, यदिवा यत एवातीतलोभा अत एव सन्तोषिण इति, त एवंभूता भगवन्तः 'पापम्' असदनुष्ठानापादितं कर्म, न कुर्वन्ति-नाददति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org