________________
ततश्च संयमोऽपि अपूर्वकर्मकचवरागमनिरोधतयैवोपकुरुते, तत्स्वभावत्वात्, गृहशोधने पवनप्रेरितकचवरागमनिरोधेन वातायनादिस्थगनवत्, एवं त्रयाणामेव, अपिशब्दोऽवधारणार्थः, अथवा सम्भावने, किं सम्भावयति ? 'त्रयाणामपि' ज्ञानादीनाम्, किविशिष्टानाम् ? निश्चयतः क्षायिकाणाम्, न तु क्षायिकोपशमिकानामिति समायोगे संयोगे मोक्षः-सर्वथाऽष्टविधकर्ममलवियोगलक्षणः, जिनानां शासनं जिनशासनम्, तस्मिन् 'भणितः"-उक्तः । आह-'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः (त०१/१) इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेण उक्तलक्षणज्ञानादित्रथादेव मोक्षप्रतिपादनादिति उच्यते सम्यग्दर्शनस्य ज्ञानविशेषात्वाद् रुचिरूपत्वात् ज्ञानान्तर्भावाद् अदोष इति गाथार्थः ॥१०३।। (आव०नि०गा०१०३) 1117 [45] णाणं पयासगं सोहओ, तवो संजमो य गुत्तिकरो।
तिण्हंपि समाजोगे, मोक्खो जिणसासणे भणिओ ॥११७५ ॥
अस्य व्याख्या-इह यथा कचवरसमन्वितमहागृहशोधने प्रतीपादानां पृथग्व्यापारस्तद्वज्जीवगृहकर्मकचवरशोधने ज्ञानादानाम् । तत्र ज्ञायतेऽर्थोऽनेनेति ज्ञानम्, तच्च प्रकाशकम्, प्रकाशकत्वेन ज्ञानमुपकुरुते गृहमलापनयने प्रदीपवदिति भावः । तथा शोधयतीति शोधकम्, किं तदित्याह-'तपः' तापयति अनेकभवोपात्तमष्टविधं कर्मेति तपः, तच्च शोधकत्वेनोपकुरुते, गृहशोधने कर्मकरपुरुषवत्, संयमनं संयम-आश्रवद्वारविरमणं चशब्दः पृथक् ज्ञानादीनां विवक्षितफलसिद्धौ भिन्नोपकारकारित्वावधारणार्थः, गोपनं गुप्तिः-कर्मकचवरागमनिरोधस्तत्करणशीलो गुप्तिकरः, संयमोऽपि कर्मकचवरागमनिरोधकरणेनोपकुरुते इति भावः, गृहशोधने पवनप्रेरितकचवरागम-निरोधकरणेन वातायनादिस्थगनवदितियावत् । उक्तं च-"ज्ञानं सुमार्गदीपं सम्यक्त्वम्, तदपराङ्मुखत्वाय । चारित्रमाश्रवणं क्षपयति कर्माणि तु तपोऽग्निः ॥१॥" इति, एवं त्रयाणामेव अपिशब्दोऽवधारणे, अथवा संभावने, किं संभावयति? त्रयाणामपि ज्ञानादीनां क्षायिकाणाम् न तु क्षायोपशमिकादीनामिति समायोगे संयोगे मोक्षः-सकलकर्ममलविकलतालक्षणो जिनशासने भणित:प्रतिपादितः । नन्वेवं तर्हि "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" (त०१/ १) इत्यागमो विरुध्यते, सम्यग्दर्शनमन्तरेणापि उक्तलक्षण ज्ञानादिद्वयादेव मोक्षप्रतिपादनात्, न विरुध्यते, सम्यग्दर्शनस्य ज्ञानान्तर्भावात्, तदन्तरेण ज्ञानस्य ज्ञानत्वस्यैवायोगादिति ॥११७५॥(धर्मसं०-गा० ११७५) 11/7 [46] एत्तो च्चिय अवणीया, किरियामेत्तेण जे किलेसा उ।
__ मंडुक्कचुनकप्पा, अन्नेहि वि वन्निया णवरं ॥ १९१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org