SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ ३३ मोक्षहेतोर्वृद्धिकरत्वाद् वन्दनायां प्रयत्नः संगत एवेति गाथार्थः ॥२४॥ पञ्चा० प्र० पञ्चा०-३ गा०२४] 9/6 [35] उच्चागोत्तस्स णं भंते ! कम्मस्स जीवेणं पुच्छा, गोयमा ! उच्चागोत्तस्स कम्मस्स जीवेणं बद्धस्स जाव अट्ठविहे अणुभावे पण्णत्ते तं जहाजातिविसिया १ कुलविसिट्ठया २ बलविसिया ३ रूवविसिया ४ तवविसिया ५ सुयविसिया ६ लाभविसिट्टया ७ इस्सरियविसिया ८ जं वेदेति पोग्गलं वा पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोग्गलाणं परिणामं तेर्सि वा उदएणं जाव अट्ठविधे अणुभावे पन्नत्तं ॥ २९२ ॥ तत्रोच्चैर्गोत्रविषयं सूत्रमाह - ' उच्चागोयस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनमष्टविधोऽनुभावः प्रज्ञप्तः, तदेवाष्टविधत्वं दर्शयति- 'जाइविसिट्टया' इत्यादि, जात्यादयः सुप्रतीताः, शब्दार्थस्त्वेवम् जात्या विशिष्टो जातिविशिष्टस्तद्भावो जातिविशिष्टता इत्यादि 'जं वेएइ पुग्गलं वा' इत्यादि यं वेदयते पुद्गलं बाह्यद्रव्यादिलक्षणम्, तथाहि - द्रव्यसम्बन्धाद्राजादिविशिष्टपुरुषसम्परिग्रहाद् वा नीचजातिकुलोत्पन्नोऽपि जात्यादिसम्पन्न इव जनस्य मान्य उपजायते, बलविशिष्टताऽपि मल्लानामिव लकुटिभ्रमणवशात्, रूपविशिष्टता प्रतिविशिष्टतादृग्वस्त्रालङ्कारसम्बन्धात्, तपोविशिष्टता गिरिकूट्याद्यारोहणेनातापनां कुर्वतः श्रुतविशिष्टतामनोज्ञभूदेशसम्बन्धात् स्वाध्यायं कुर्वतः लाभविशिष्टता प्रतिविशिष्टरत्नादियोगात्, ऐश्वर्यविशिष्टता धनकनकादिसम्बन्धादिति, पुग्गले वा' इति यान् बहून् पुद्गलान् वेदयते पुद्गलपरिणामं दिव्यफलाद्याहारपरिणामरूपं विस्रसया वा यं पुद्गलानां परिणामम् अकस्मादभिहितजलदागमसंवादादिलक्षणं तत्प्रभावादुच्चैर्गोत्रं वेदयते - उच्चैर्गोत्रकर्मफलं जातिविशिष्टत्वादिकं वेदयते एतेन परत उदय उक्तः, सम्प्रति स्वतस्तमाह- 'तेसिं वा उदएणं' तेषां वा उच्चैर्गोत्रकर्मपुद्गलानाम् उदयेन जातिविशिष्टत्वादिकं भवति । [ प्रज्ञा० प० - ३३, उ०- १ सू. २९२] 9/6 , [36] ननु यदि मिथ्यात्वबहुलतायां विशुद्धसम्यक्त्वकथनमपि दुर्लभम्, तर्हि विद्यादिगुणवतां द्रव्यलिङ्ग्यादीनामनुवृत्तिः क्रियतां यथा कृतानुवृत्तयस्ते सम्यक्त्वाङ्गीकारपरायणेषु धार्मिकेषु न द्विषन्तीत्याशङ्कयोत्सूत्राऽभिनिवेशसंक्लिष्टमनसां तेषां सङ्गमपि महानर्थकरं मन्वानो निवारयन्नाह बहुगुणविज्झानिलओ, उस्सुत्तभासी तहा वि मुत्तव्वो । जह वरमणिजुत्तो वि हु विग्धकरो विसहरो लोए ॥ १८ ॥ व्याख्या-उत्सूत्रभाषी मोक्तव्य इत्यन्वयः । यद्यपि बहुगुणविद्यानिलयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy