________________
३४
बहवः प्रभूता गुणा निष्ठुरक्रियाकरणादिरूपा यस्य स बहुगुणः विद्याश्चतुर्दश श्रुताभ्यासरूपा वा तासां निलय इव निलयो गृहमिति यावत्ततश्च कर्मधारयः । अथवा बहुगुणेति विद्याविशेषणं बहुगुणत्वं च विद्याया लोके लोकोत्तरे च सिद्धम्, तदुक्तम्
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदाऽप्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धि पराम् ॥ कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्, येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ ६८॥ (भर्तृहरेः) जह जह सुयमवगाहइ, अइसयरसपसरसंजुयमपुव्वं । तह तह पल्हाइमुणी, नव नव संवेग सद्धाए ॥६९॥
ततो यद्यपि बहुगुणविद्यानिलयस्तथापि तदपि उत्सूत्रभाषीसिद्धान्तविरुद्धमार्गोपदेष्टा चेत् तहि मोक्तव्य एव-त्याज्य एव । तदुक्तं
उम्मग्गदेसणाए चरणं, नासंति जिणवरिंदाणं । वावन्नदंसणा खलु, नहु लब्मा तारिसा दटुं ॥७०॥
अमुमेवार्थं द्रढयन् दृष्टान्तमाह-जहेत्यादि-यथेत्यौपम्ये, वरः-प्रधानो विषादिदोषनिराकरणेन मणीरत्न-वरमणिस्तेनयुक्तोऽपि-सहितोऽपि, हुरवधारणे, स चाग्रे यो जयिष्यते । विषधरो-भुजगो लोके विघ्नकर एव-जीवितादिप्रत्यूहकर एव तस्मान्मोक्तव्य इति । यथा हि विषधरो वरमणियुक्तोऽपि विघ्नकर एव तथोत्सूत्रभाषी मणिसमानबहुगुणविद्यावानपि धर्मविघ्नकर एवेति मोक्तव्य इत्यर्थः ॥१८॥ (षष्टिशतकप्र० गा०१८) 9/8 [3] आया चेव अहिंसा, आया हिंसत्ति निच्छओ एसो।
जो होइ अप्पमत्तो, अहिंसओ हिंसओ इयरो ॥ ७५५ ॥ आत्मैवाहिंसा आत्मैव हिंसा इत्ययं निश्चय इत्यर्थः । कथमसावहिंसकः कथं वा हिंसकः ? इत्यत आह-'जो होइ' इत्यादि, यो भवति 'अप्रमत्तः' प्रयत्नवानित्यर्थः स खल्वेवंविधोऽहिंसको भवति, "हिंसओ इयरो'त्ति 'इतरः' प्रमत्तो यः स हिंसको भवतीत्ययं परमार्थः । अथवाऽनेनाभिप्रायेणेयं गाथा व्याख्यायते, तत्र नैगमस्य जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिंसितो-विनाशितः, तथा घटोऽनेन हिसितो-विनाशितः, ततश्च सर्वत्र हिंसाशब्दानुगमात् जीवेष्वजीवेषु च हिंसा नैगमस्य, अहिंसाऽप्येवमेवेति, संग्रहव्यवहारयोः षट्सु जीवनिकायेषु हिंसा, संग्रहश्चात्र देशग्राही द्रष्टव्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org