________________
सम्यक्त्वे सति अणुव्रताभिलाषेण अणुव्रतेषु सत्सु महाव्रताभिलाषेणेति भावः, चशब्दः समुच्चय एव, अत्र-सम्यक्त्वाणुव्रतादिव्यतिकरे तत्प्रतिपत्त्युत्तरकालं सदासर्वकालं भवति-युज्यते यतितव्यम्-उद्यमः कर्तव्य इति गाथाद्वयार्थः ॥३७॥ अनन्तरोक्तोपदेशमेव फलदर्शनेन निगमयन्नाह-'एवे'त्यादि, एवम्-उक्तन्यायेन नित्यस्मृत्यादिना यत्नेनासन्नपि-अविद्यमानोऽपि, संस्तु जात एवेत्यपिशब्दार्थः, 'इमो'त्ति अयं सम्यक्त्वपरिणामो विरतिपरिणामश्च, जायते-भवति, जातश्च-संपन्नः पुनः न पतति-नापैति कदाचित्-क्वचिदपि काले, 'ता' इति यस्मादेवं तस्मादत्रनित्यस्मृत्यादिके प्रयत्ने, बुद्धिमता-धीमता, अप्रमादः-उद्यमः भवति-वर्तते कर्तव्य इति गाथार्थः ॥३८॥ (पञ्चा०प्र०पञ्चा०१, गा० ३६-३७-३८) 915 [33] अथ चतुःशरणादिकृत्ये यत्फलं स्यात् तद्गाथाद्वयेनाह
सुहपरिणामो णिच्चं, चउसरणगमाइ आयरं जीवो ।
कुसलपयडी उ बंधइ, बद्धाउ सुहाणुबंधाउ ॥ ५९॥ शुभपरिणाम:- प्रशस्तमनोध्यवसाय: सन् नित्यं-सदैव चतुःशरणगमनादिचतुःशरणगमन-दुष्कृतगर्हा-सुकृतानुमोदनान्याचरन्-कुर्वन् साधुप्रभृतिको जीवः कुशलं-पुण्यं तत्प्रकृतीः सा उच्चगोअ मणुदुगेत्यादि गाथोक्ताः द्विचत्वारिंशत्संख्याः बध्नाति शुभाध्यवसायबध्यमानत्वात्तासाम्, तथा ताश्च प्रकृतीर्बद्धाः सतीः शुभाध्यवसायवशाच्छुभोऽनुबन्धः उत्तरकालफलविपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः ॥ ५९ ॥ (चउ०प० गा० ५९) 9/5
[34] अथ कस्माद् वन्दनायां मुद्राविन्यासादिरात्यन्तिकप्रयत्नो विधीयत इत्याह
खाओवसमिगभावे, दढजत्तकयं सुहं अणुट्टाणं । परिवडियं पि हु जायइ पुणो वि तब्भाववुड्किरं ॥२४॥
व्याख्या-क्षायोपशमिकभावे मिथ्यात्वमोहनीयादिकर्मविगमविशेषविहितात्मपरिणामे सति न तु लाभार्थित्वलक्षणौदयिकभावे दृढयलकृतं परमादरविहितम् । शुभं-प्रशस्तम् । अनुष्ठानमाचरणं चैत्यवन्दनादि । इह यत्तदिति विशेषो दृश्यः प्रतिपतितमपि तथाविधकर्मदोषाद् भ्रष्टमपि, आस्तामप्रतिपतितम् । हुशब्दोऽवधारणार्थः । तत्प्रयोगश्च दर्शयिष्यते । जायत एव भवत्येव । पुनरपि- भूयोऽपि । किंभूतं जायत इत्याह-यस्मिन् भावे क्षायोपशमिके वर्तमाने तच्छुभमनुष्ठानं विहितं तद्भावस्य तस्याध्यवसायस्य वृद्धिकरं-वर्धनकारि तद्भाववृद्धिकरमतः शुभभावस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org