________________
याति । स च नियमात्तदनन्तरं मिथ्यात्वमेव प्रपद्यते ॥२३॥ (कर्मप्र०, उप० क० गा०१८-२३) 5/6 [21] अधुना ध्यानमेव कालस्वामिभ्यां निरूपयन्नाह -
अंतोमुहुत्तमेत्तं, चित्तावत्थाणमेगवत्थुमि ।
छउमत्थाणं झाणं, जोगनिरोहो जिणाणं तु ॥३॥ व्याख्या-इह मुहूर्तः-सप्तसप्ततिलवप्रमाणः कालविशेषो भण्यते । उक्तं चकालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखेज्जा भवन्ति ऊसासनीसासा ॥१॥ हट्ठस्स अणवगल्लस्स, णिरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चइ ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥३॥ अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्त्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालम्, किं ? चित्तावस्थानमिति चित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानम्, निष्प्रकम्पतया वृत्तिरित्यर्थः । क्व ? एकवस्तुनि, एकम्-अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु-चेतनादि, एकं च तद्वस्तु च एकवस्तु तस्मिन् २ छद्मस्थानां ध्यानमिति तत्र छादयतीति छद्म-पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वात् ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था-अकेवलिन इत्यर्थः। तेषां छद्मस्थानाम्, ध्यानं प्राग्वत्, ततश्चायं समुदायार्थः-अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति, योगनिरोधो जिनानां त्विति तत्र योगा:-तत्त्वत औदारिकादिशरीरसंयोगसमुत्था-आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिक-वैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः इति, अमीषां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषाम् ? जिनानां-केवलिनाम, तुशब्द एवकारार्थः, स चावधारणे योगनिरोध एव न तु चित्तावस्थानं चित्तस्यैवाभावाद्, अथवा योगनिरोधो जिनानामेव ध्यानं नान्येषाम् अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदुपरिष्टाद् वक्ष्याम इति गाथार्थः ॥३॥(ध्या०श०गा०३)6/4...30/1
[22] आह-ननु जीवाकुले लोकेऽवश्यमेव जीवघात: संभाष्यते, जीवांश्च जन् कथं हिंसको न स्यात् ? इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org