________________
२४
ठिइत्ति - यावद्गुणसंक्रमस्तावदायुर्वर्जानां सप्तानां कर्मणां स्थितिघातो रसघातो गुणश्रेणिर्वा प्रवर्तते । गुणसंक्रमे च निवर्तमाने ता अपि निवर्तन्ते । मिथ्यात्वस्य पुनः प्रथमस्थितौ यावदेका आवलिकाशेषा न भवति, तावन्मिथ्यात्वस्य स्थितिघातरसघातौ भवतः । आवलिकायां तु शेषीभूतायां तौ निवृत्तौ । यावच्च प्रथमस्थितौ द्वे आवलिके शेषे न भवतस्तावद्गुणश्रेणिरपि मिथ्यात्वस्य प्रावर्त्तिष्ट । आवलिकाद्विके तु शेषीभूते गुणश्रेणिर्निवृत्ता । तदेवमन्तरकरणे प्रविष्टः सन् प्रथमसमयादारभ्य औपशमिकसम्यग्दृष्टिस्तावदभूत् यावदन्तर्मुहूर्तम् ॥२१॥
ततः संप्रति यत्करोति तदाह
उवसंतद्धा अंते, विहिणा ओकड्डियस्स दलियस्स । अज्झवसाणणुरुवस्सुदओ तिसु एक्कयरयस्स ॥ २२॥
उवसंतद्ध त्ति - औपशमिकसम्यक्त्वाद्धाया अन्ते - पर्यन्ते किञ्चित्समधिकावलिकाशेषे वर्तमानस्त्रयाणामपि द्वितीयस्थितिगतानां सम्यक्त्वादिपुञ्जानां दलिकमध्यवसायविशेषेण समाकृष्यान्तरकरणपर्यन्तावलिकायां प्रक्षिपति । तत्र प्रथमसमये प्रभूतम् । द्वितीयसमये स्तोकम् । तृतीयसमये स्तोकतरम् । एवं तावद्वाच्यं यावदावलिकाचरमसमयः । तानि चैवं दलिकानि निक्षिप्यमाणानि गोपुच्छसंस्थानसंस्थितानि भवन्ति । तत आवलिकामात्रे कालेऽन्तरकरणस्य शेषे अमीषां त्रयाणामेकतरस्य दलिकस्योदयो भवति । किंविशिष्टस्येत्याहअध्यवसायानुरूपस्य । एतदुक्तं भवति -- यदि तदानीं शुभः परिणामस्तर्हि सम्यक्त्वदलिकस्योदयः । मध्यमश्चेत्परिणामस्तर्हि सम्यग्मिथ्यात्वदलिकस्य । जघन्यश्चेत्ततो मिथ्यात्वदलिकस्येति ॥२२॥
सम्मत्तपढमलंभो, सव्वोवसमा तहा विगिट्ठो य । छालिगसेसाऍ परं, आसाणं कोइ गच्छेज्जा ॥२३॥
सम्मत्त त्ति - एष औपशमिकसम्यक्त्वप्रथमलाभो मिथ्यात्वस्य सर्वोपशमाद् भवति, नान्यथा । तथा प्रथमस्थित्यपेक्षया विप्रकर्षश्च बृहत्तरमन्तर्मुहूर्तकालप्रमाणश्च । एष सम्यक्त्वप्रथमलाभः । अस्मिश्च सम्यक्त्वे लभ्यमाने सति कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते । उक्तं च शतकबृहच्चूण - " उवसमसम्मद्दिट्ठी अंतरकरणट्ठिओ कोई देसविरयं पि लभेइ, कोई पमत्तापमत्तभावं पि, सासायणो पुण न किं पि लहेइ त्ति" एतत्सम्यक्त्वाद्धायां च जघन्यतः समयशेषायां परम् उत्कर्षतः षडावलिकाशेषायां कश्चिद् आसादानं सासादनत्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org