________________
२३ मिच्छत्तुदए खीणे, लहए सम्मत्तमोवसमियं सो। लंभेण जस्स लब्भइ, आयहियमलद्धपुव्वं जं ॥१८॥
मिच्छत्तुदए त्ति-मिथ्यात्वस्योदये क्षीणे सति स जीव उक्तेन प्रकारेणौपशमिकं सम्यक्त्वं लभते । यस्य सम्यक्त्वस्य लाभेन यदात्महितमलब्धपूर्वमर्हदादितत्त्वप्रतिपत्त्यादि तल्लभ्यते । तथाहि-सम्यक्त्वलाभे सति जात्यन्धस्य पुंसश्चक्षुर्लाभे ए(इ)व जन्तोर्यथावस्थितिवस्तुतत्त्वावलोको भवति । महाव्याध्यभिभूतस्य व्याध्यपगमे इव महांश्च प्रमोदः । तदुक्तं-"जात्यन्धस्य यथा पुंसश्चक्षुर्लाभे शुभोदये । सद्दर्शनं तथैवास्य सम्यक्त्वे सति जायते ॥१॥ आनन्दो जायतेऽत्यन्तं तात्त्विकोऽस्य महात्मनः । सद्व्याध्यपगमे यद्वद् व्याधितस्य सदौषधात् ॥२॥" इति ॥१८॥
तं कालं बीयठिइं, तिहाणुभागेण (भागं तु) देसघाइ स्थ। .. सम्मत्तं सम्मिस्सं, मिच्छत्तं सव्वघाईओ ॥१९॥
तं त्ति-तं कालं तस्मिन् काले यतोऽनन्तरसमये औपशमिकसम्यग्दृष्टिभविष्यति, तस्मिन् प्रथमस्थितौ चरमसमये इत्यर्थः । मिथ्यादृष्टिः सन् द्वितीयं द्वितीयस्थितिगतं दलिकमनुभागेनानुभागभेदेन त्रिधा करोति । तद्यथा-शुद्धमर्धविशुद्धमविशुद्धं च । तत्र शुद्धं सम्यक्त्वम्, तच्च देशघाति, देशघाति-रसोपेतत्वात्। अर्धविशुद्धं सम्यग्मिथ्यात्वम्, तच्च सर्वघाति, सर्वघातिरसोपेतत्वात्। अशुद्धं मिथ्यात्वम, तदपि सर्वघाति । तथा चाह-समिश्र-मिश्रसहितं मिथ्यात्वं सर्वघाति ॥१९॥
पढमे समए थोवो, सम्मत्ते मीसए असंखगुणो। अणुसमयमवि य कमसो, भित्रमुहुत्ता हि विज्झाओ ॥२०॥
पढमे ति-औपशमिकसम्यक्त्वलाभप्रथमसमयादारभ्य मिथ्यात्वदलिकं गुणसंक्रमेण सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयति । तच्चैवं-प्रथमसमये स्तोको दलिकनिक्षेपः सम्यक्त्वे । ततो मिश्रेऽसंख्येयगुणः । ततोऽपि द्वितीये समये सम्यक्त्वेऽसंख्येयगुणः । ततोऽपि तस्मिन्नेव द्वितीये समये सम्यग्मिथ्यात्वेऽसंख्येयगुणः । एवमनुसमयं प्रतिसमयं क्रमशः क्रमेण तावद्वक्तव्यं यावदन्तर्मुहूर्तम्। ततः परं विध्यातसंक्रमः प्राभिहितस्वरूपः प्रवर्तते ॥२०॥
ठिइरसघाओ गुणसेढी वि य तावं पि आउवज्जाणं । पढमठिइऍ एग-दुगावलिसेस त्ति मिच्छत्ते ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org