SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २६. न य घायउ त्ति हिंसो नाघायंतो निच्छ्यिमहिंसो । न विरलजीवमहिंसो न य जीवघणं ति तो हिंसो ॥१७६३ ॥ अहणतो वि हु हिंसो दुट्टुत्तणओ मओ अहिमरोव्व । बार्हितो न वि हिंसो, सुद्धत्तणओ जहा विज्जो ॥१७६४ ॥ न हि घातकः इत्येतावता हिंस्रः, न चाघ्नन्नपि निश्चयनयमतेनाहिंस्रः, नापि विरलजीवम् इत्येतावन्मात्रेणाहिंस्रः, न चापि जीवघनम् इत्येतावता च हिंस्रः इति । किं तर्हि ? अभिमरो गजादि - ( राजादि) - ) - घातकः स इव दुष्टाध्यवसायोऽघ्नन्नपि हिंस्रो मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रो यथा वैद्यः, इति घ्नन्नप्यहिंस्रः, अघ्नन्नपि च हिंस्रः उक्तः || १७६३ - ६४ ॥ स इह कथंभूतो ग्राह्यः इत्याह पञ्चसमिओ तिगुत्तो, नाणी अविहिंसओ न विवरीओ । होउ व संपत्ती से मा वा जीवोवरोहेणं ॥१७६५ ॥ पञ्चभिः समितिभिः समितः, तिसृभिः गुप्तिभिश्च गुप्तो ज्ञानी जीवस्वरूप:तद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतः, तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभपरिणामत्वात् । बाह्यजीवहिंसायास्तु जीवोपरोधेन जीवस्य कीटादेरूपरोधेनोपघातेन संपत्तिर्भवतु मा भूद् वा स तस्य साध्वादेः, हिंसकत्वे तस्या अनैकान्तिकत्वादिति ॥१७६५ ॥ कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह असुभो जो परिणामो, सा हिंसा सो उ बाहिरनिमित्तं । को वि अवेक्खेज्ज नवा जम्हाऽणेगंतियं बज्झं ॥१७६६ ॥ यस्मादिह निश्चयनयतो योऽशुभपरिणामः स एव हिंसा इत्याख्यायते स च बाह्यासत्त्वातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते, कोऽपि पुनस्तन्निरपेक्षोऽपि भवेत् यथा तन्दुलमत्स्यादीनाम्, तस्मादनैकान्तिकमेव बाह्यनिमित्तम्, तत्सद्भावेऽप्यहिंसकत्वात्, तदभावेऽपि च हिंसकत्वादिति ॥१७६६॥ नन्वेवं तर्हि बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति ? | उच्यतेकश्चिद् भवति कश्चित्तु न । कथम् ? इत्याह असुभ परिणामहेऊ जीवाबाहोत्ति तो मयं हिंसा । जस्स उन सो निमित्तं, संतो वि न तस्स सा हिंसा ॥१७६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy