SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ १८३ योगाष्टकम् (२७) तत्र भाव्यते अनादितः जीवः मूर्तपुद्गलस्कन्धालम्बनपरिणतः, कथं प्रथमतः एवामूर्तानन्दरूपं स्वरूपमवलम्बते? अतः अतिशयोपेतवीतरागमुद्रादिकं परं मूर्तं चालम्ब्य विषयकषायवृद्धिकरं स्त्रीधनाद्यवलम्बनं त्यजति, इत्येका परावृत्तिः । पुनः स एव अतिशयादिरूपमूर्त नालम्बनीयमहं तु अमूर्तः मूर्तभावरसिकत्वं नोपयुज्यते । यद्यपि अर्हतः सम्बन्धं तथापि औदयिकं नालम्बनम्, मम तु गुणालम्बनमुत्तममिति, गुणावलम्बनी मूर्त्तान् भावान् न रसिकत्वेन गृह्णाति, सापेक्षः परत्वेन पश्यति द्वितीया परावृत्तिः । एवममूर्त्तात्मगुणरसिको भवति । तेन परमेष्ठिस्वरूपं कारणेनावधार्य स्वकीयासंख्यप्रदेशव्याप्यव्यापकभावावच्छिन्नद्रव्यास्तिकपर्यायास्तिकानन्तस्वभावममलामूर्त्तानन्दमयं ध्येयत्वेनावलम्बते, इति तृतीया परावृत्तिः । इति साधनपद्धतिः । सर्वेषां तत्स्वरूपसाधनमरूपिगुणाः सिद्धगुणाः, तेषां भावनं सायुज्यं तादात्म्यता, तया योगः, आत्मोपयोगयोजनम् । यद्यपि ईषदवलम्बनं श्रुतादीनाम्, तथापि अनालम्बनमेव परः उत्कृष्टो योगः । उक्तं च पाठकैः[117] तत्राप्रतिष्ठितोऽयम्, यतः प्रवृत्तश्च तत्त्वतस्तत्र । सर्वोत्तमानुजः खलु, तेनाऽनालम्बनो गीतः ॥९॥ षोड० प्र०षो० १५, श्लो० ९] निरालम्बनयोगेन धारावाही प्रशान्तवाहिता नाम चित्तं तस्य स्वरसत एव मनः सहजधारायां वर्तते, न प्रयासो भवति । उक्तं च विंशतिकायाम्[118] आलंबणं पि एयं, रूवमरूवी य इत्थ परमु त्ति । तग्गुणपरिणइरूवो, सुहुमो अणालंबणो नाम ॥१९॥ [योगविं० गा० १९] एकाग्रयोगस्यैवापरनाम अनालम्बनयोग इति । एवं स्थानाद्याः पञ्च इच्छादेर्गुणिता विंशतिः(२०) भवन्ति, ते च प्रत्येकमनुष्ठानचतुष्कयोजिता १. संख्येय० A.D., V.1. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy