________________
१८२
श्रीज्ञानमञ्जरी अर्थालम्बनयोश्चैत्य-वन्दनादौ विभावनम् । श्रेयसे योगिनः स्थान-वर्णयोर्यन एव च ॥५॥
अर्थालम्बनयोरिति- अर्थो-वाक्यस्य भावार्थः, आलम्बनं-वाच्ये पदार्थे अर्हत्स्वरूपे उपयोगस्यैकत्वम् । अर्थश्च आलम्बनं च अर्थालम्बने तयोः, चैत्यवन्दनादौ-अर्हद्वन्दनाधिकारे विभावनंस्मरणं करणीयं श्रेयसेकल्याणार्थम् । च-पुनः स्थानं वन्दनककायोत्सर्गशरीरावस्थानमासनमुद्रादि वर्णाः-अक्षराणि, तस्य (तेषां) शुद्धिस्तयोः यत्न एव श्रेयसेकल्याणाय भवति । उक्तं चावश्यके[116] जं वाइद्धं, वच्चामेलियं, हीणक्खरं, अच्चक्खरं, पयहीणं, विणयहीणं, जोगहीणं, घोसहीणं, सुठुदिन्नम्, दुझुपडिच्छियं, अकाले कओ सज्झाओ, काले न कओ सज्झाओ, (असज्झाइए सज्झाइयं, सज्झाइए न सज्झाइयं) तस्स मिच्छा मि दुक्कडं" [ आ०नि०, पगामसिज्झासूत्रे] इत्यनेन द्रव्य-क्षेत्र-कालविशुद्धौ भावसाधनसिद्धिः तेन द्रव्यक्रिया हिता ॥५॥
आलम्बनमिह ज्ञेयम्, द्विविधं रूप्यरूपि च । अरूपि गुणसायुज्यम्, योगोऽनालम्बनं परम् ॥६॥
आलम्बनमिति- इह-जैनमार्गे आलम्बनं द्विविधं ज्ञेयं-द्विप्रकार ज्ञेयम्, एकं रूपि, अपरम् अरूपि । तत्र रूप्यालम्बनं-जिनमुद्रादिकपिण्डस्थ-पदस्थ-रूपस्थपर्यन्तम्, यावदर्हदवस्थालम्बनं तावत्कारणावलम्बनं शरीरातिशयोपेतं रूप्यवलम्बनम् । तत्र अनादिपरभावशरीरधनस्वजनावलम्बी, परत्र परिणतचेतनः विषयैश्वर्याद्यर्थं तीर्थंकराद्यवलम्बनमपि भवहेतुः । तथैव यः स्वरूपानन्दपिपासितः स्वरूपसाधनार्थं प्रथमकारणरूपं जिनेश्वरं वीतरागादिगुणसमूहैः अवलम्बते, यावद् मुद्राद्यालम्बनी तावद् रूप्यवलम्बनी । स एव अर्हत्सिद्धस्वरूपं ज्ञानदर्शनचारित्राद्यनन्तपर्यायविशुद्धशुद्धाध्यात्मधर्ममवलम्बते, इति अरूप्यालम्बनी । १. मुद्रादिकम्, V.1., A.D. | २. विषयाश्वर्या० सर्वप्रतिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org