________________
१८४
श्रीज्ञानमञ्जरी अशीतिः प्रकारा (८०) भवन्ति । तत्स्वरूपनिरूपणायोपदिशति
प्रीतिभक्तिवचोऽसङ्गैः, स्थानाद्यपि चतुर्विधम् । तस्मादयोगियोगाप्तेर्मोक्षयोगः क्रमाद्भवेत् ॥७॥
प्रीतिभक्तीति- एते स्थानादयः, प्रीतिः, भक्तिः, वचनम्, असङ्ग इति भेदचतुष्टयैरशीतिर्भेदा भवन्ति, तस्माद्-योगात्क्रमेण अयोगिनामा योगः, तस्याप्तिः- प्राप्तिः भवति । अयोगियोगः- शैलैशीकरणम् । सकलयोगचापल्यरहितो योगः प्राप्नोति । तेन पुनः क्रमान्मोक्षःसर्वकर्माभावलक्षणः । आत्मनः तादात्म्यावस्थानं मोक्षः । एवं योगसंयोगः क्रमाद् अनुक्रमेण भवति । अथ–प्रीत्याद्यनुष्ठानस्वरूपं षोडशकतो लिख्यते । अस्य चानुष्ठानता सांसारिकपरिणतौ, सा च परावृत्य तत्त्वसाधने करणीया । [119] यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः ।।
शेषत्यागेन करोति, यच्च तत्प्रीत्यनुष्ठानम् ॥३॥ इति प्रीतिलक्षणम् । गौरवविशेषयोगाद् बुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि, ज्ञेयं तद्भक्त्यनुष्ठानम् ॥४॥ अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ॥५॥ इति भक्तिलक्षणम् । वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदम्, चारित्रवतो नियोगेन ॥६॥ इति वचनलक्षणम् । यत्त्वभ्यासातिशयात्सात्मीभूतमिव चेष्ट्यते सद्भिः ।
तदसङ्गानुष्ठानं भवति त्वेतत्तदावेधात् ॥७॥ १. दयोगयोगा० A.D., P., B.1.2., V.1.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org