________________
१७८
श्रीज्ञानमञ्जरी न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ । कल्पनाशिल्पविश्रान्तेस्तुर्यैवानुभवे दशा ॥७॥
न सुषुप्तिरिति- तथा च नयचक्रे दशाः चतस्रः, तत्र बहुशयनरूपा मिथ्यात्वस्थानां शयनावस्था । सम्यग्दृशां जागरा, प्रमत्ताऽप्रमत्तमुनीनाम् । तुर्या च उत्तरा ध्यानस्थानाम्, उत्तरोत्तरा सयोगिकेवलिनाम्। पुनः श्रीविंशतिकायाम्- सुषुप्तिः तीव्रनिद्राघूर्णितचेतसां सा अनुभवज्ञानिनो न । कस्मात् ? अमोहत्वात् । अनुभवी-मोहरहितः, सुषुप्तिस्थः-मोहमयः, तेनानुभवज्ञानवतः सुषुप्तिन । तत्त्वानुभविनः स्वापदशा तथा जागरापि न, एतद्दशाद्वयं कल्पनोपेतम्, अनुभवः कल्पनाविकल्पचेतना२, तस्याः शिल्पं-विज्ञानं तस्य विश्रान्तिः-अभाव इत्यर्थः, तस्मान्न । अतः अनुभवे तुर्या एव दशा वाच्या । यद्यपि तुर्या दशा सर्वत्र तथापि यथार्थश्रुतभावितचेतनानां केवलकरणत्वेनोपचारात् स्वरूपाच्च तुर्यैव दशा वक्तुं शक्या, नहि दशात्रयसंभवः । तेनानुभवः समाधिहेतुः ॥७॥ अथ सिद्धान्तीकरोति
अधिगत्याखिलं शब्द-ब्रह्म शास्त्रदृशा मुनिः । स्वसंवेद्यं परं ब्रह्मानुभवेनाधिगच्छति ॥८॥
इत्यनुभवाष्टकम् ॥२६॥ अधिगत्येति- पूर्वपूर्वसेवनास्थाने शास्त्रदृशा-शास्त्रग्रहणबुद्ध्या अखिलं-समस्तं शब्दब्रह्म-षड्भाषावाङ्मयम्, अधिगत्य-ज्ञात्वा, तदनन्तरं मुनिः अनुभवेन-स्वरूपग्राहकदृष्ट्या स्वसंवेद्यं-स्वेन-आत्मना संवेद्यं-ज्ञानास्वादनयोग्यं परं ब्रह्म-शुद्धात्मस्वरूपम् अधिगच्छतिप्राप्नोति । अतः उक्तं च आगमे-ससमयं जाणेई, परसमयं जाणेई, ससमयं परसमयं जाणित्ता अप्पाणं भाविता भवई ॥ अत एव आगमाभ्यासपटुमतिः तत्त्वज्ञानानुभवेनात्मस्वरूपं प्राप्नोति । तेनानुभवाभ्यासो विधेयः ॥८॥
॥ इति व्याख्यातमनुभवाष्टकम् ॥२६॥ १. भवो सर्वप्रतिषु । २. विचेतना B.1.2., V.2. । ३. करणत्वो० B.1.2., S.M. । ४. ज्ञानस्वादन० V.2., B.1. ज्ञानस्वादने B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org