________________
अनुभवाष्टकम् (२६)
१७७ ज्ञायेरन् इति- यदि यावता कालेनातीन्द्रियाः-इन्द्रियागोचराः पदार्थाः-धर्मास्तिकायादयो हेतुवादेन-युक्तिप्रमाणसमूहेन ज्ञायेरन् । एतावता कालेन परमात्मभावश्रवण-चिन्तन-निदिध्यासनादिना स्वात्मस्वरूपे उपयोगानुभवः कृतः स्यात्, तदा तेषु धर्मास्तिकायादिषु शुद्धात्मनि च निश्चयः कृतः स्यात् प्राज्ञैः । इत्यनेन परद्रव्यचिन्तनकालमात्रेणात्मस्वरूपचिन्तने स्वपरावबोधो भवति परावबोधपरित्यागपरिणतिर्भवति । तेन सद्भिः स्वस्वभावभावने मतिः कार्या, येन निष्प्रयासत एव परावबोधपरित्यागपरिणतिर्भवति । [110] जे एगं जाणइ से सव्वं जाणइ इति वचनात् [आचा०श्रु०१,अ०३,उ०४.सू० १२२] ॥४॥
केषां न कल्पनादी, शास्त्रक्षीरान्नगाहिनी । विरलास्तद्रसास्वादविदोऽनुभवजिह्वया ॥५॥
केषां नेति- केषां-पुरुषाणाम्, कल्पना-मतिप्रवृत्तिरूपा दर्वीपाककरणचाटुका शास्त्रमेव क्षीरान्नं-परमान्नं तस्य गाहिनी-अवगाहिनी न? अपि तु अस्त्येवेति, बुद्धिकल्पनया शास्त्रग्राहिणी मतिर्बहूनाम्, परम् अनुभवजिह्वया तद्रसास्वादविद:-तेषां शास्त्राणां रसः तद्रसः तस्यास्वादः तस्य विद:-ज्ञानिनः विरला:-अल्पाः शास्त्रास्वादग्राहिणः इति ॥५॥
पश्यन्ति ब्रह्म निर्द्वन्द्वम्, निर्द्वन्द्वानुभवं विना ।। कथं लिपिमयी दृष्टिर्वाङ्मयी वा मनोमयी ॥६॥
पश्यन्ति इति- 'लिपिमयी'-संज्ञाक्षरमयी, 'वाङ्मयी'- व्यञ्जनाक्षरमयी, 'मनोमयी-लब्ध्यक्षरमयी, दृष्टि:-योगप्रवृत्तिरूपा, 'निर्द्वन्द्वानुभवं-परोपयोगमुक्तशुद्धानुभवं शुद्धज्ञानं विना निर्द्वन्द्वं- परसंनिकर्षरहितं निर्मलम्, ब्रह्म-ज्ञानम् आत्मानं कथं पश्यन्ति ? न पश्यन्ति, नहि कर्मोपाधिरूपा बाह्यप्रवृत्तिः परब्रह्मग्राहिका भवति । अनुभवज्ञानी एव शुद्धात्मस्वरूपं पश्यति ॥६॥ १. परयोगे S.M., B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org